________________
प्रकरणम् ५७] सलमनोरमा-तत्त्वबोधिनीसहिता [५११ दध्यस्यति । मधुस्यति, मध्वस्यति । २६६३ काम्यञ्च । (३-१-६) उक्तविषये काम्यच् स्यात् पुत्रमात्मन इच्छति पुत्रकाम्यति । इह 'यस्य हलः' (सू २६३१) इति लोपो न, अनर्थकत्वात् । यस्य इति सङ्घातग्रहणमित्युनम् । यशस्काम्यति । सर्पिष्काम्यति । मान्ताग्ययेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति । २६६४ उपमानादाचारे । (३-१-१०) उपमानाकर्मणः सुबन्तादाचारार्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् । 'अधिकरणाचेति वक्तव्यम्' ( वा १७१७ ) प्रासादीयति कुटयां भिन्तुः । कुटीयति प्रासादे । २६६५ कर्तुः क्यङ् सलोपश्च । (३-१-११) उप. वक्तव्यः । तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः । न चानेनैव वार्तिकेन सिद्ध 'क्षीरत्तवणयोर्लालसायाम्' इति वार्तिकं व्यर्थमिति शङ्कयम् , 'क्षीरलवणयो:-' इति वार्तिकं कात्यायनीयम्, 'सर्वप्रातिपदिकानाम्-' इति तु मतान्तरमित्यदोषात् । एतच्च भाष्ये अपर आइत्यनेन ध्वनितम् । काम्यच्च । 'सुप श्रात्मनः क्यच्' इत्युतरमिदं सूत्रम् , तदाह उक्नविषय इति । पुत्रकाम्यतीति । कस्यत्संज्ञा तु न, फलाभावात् । अनर्थकत्वादिति । काम्यच एकदेशस्य यकारस्य अर्थाभावादित्यर्थः । ननु बेभिदिता इत्यत्रापि यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह यस्य इतीति । 'यस्य हलः' इत्यत्र यस्येत्यनेन यकाराकारसंघातग्रहणमित्यनुपदमेवोक्तमित्यर्थः। तथा च बेभिद्य इता इति स्थिते यो यस्य संघातस्यार्थवत्त्वाद्यकारलोपो निर्बाधः । प्रकृते तु काम्यजेकदेशस्य यस्यानर्थकत्वाल्लोपो नेति भावः। यश. स्काम्यतीति । 'सोऽपदादौ' इति सत्वम् । ननु किमात्मन इच्छति किंकाम्यति खःकाम्यतीति कथम् ? मान्ताव्ययानां नेत्यनुवृत्तेरित्यत आह मान्ताव्ययेभ्योऽप्ययमिति । उपमानादाचारे। 'सुप श्रात्मनः क्यच्' इत्यतः सुप इत्यनुवर्तते । 'धातोः कर्मणः समानकर्ते कात्-' इत्यतः कर्मण इति, तदाह उपमानात्कर्मण इत्यादिना। उपमानं पत्कर्मकारकं तद्वत्तेः सुबन्तादित्यर्थः । पुत्रमिवेति । 'धातोः कर्मण:-' इत्यतो वेत्यनुवृत्तिरनेन सूचिता। छात्रं पुत्रत्वेन उपचरतीत्यर्थः । विष्णूयतीति । द्विजं विष्णुत्वेन उपचरतीत्यर्थः । अधिकरणाच्चेति । उप. मानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थः । प्रासादीयति इति । लालसायामिति । उत्कटेच्छायामित्यर्थः । काम्यञ्च । उच्चारणसामर्थ्यान्न कस्येत्संज्ञा । 'मान्ताव्यय यः प्रतिषेधः' इत्यस्यानुवृत्त्यभावं सूचयति अयं स्यादे. वेति । आचरतीति । व्यवहरतीत्यर्थः । अधिकरणाञ्चेति । सप्तम्यन्तरूपात् सुबन्तादित्यर्थः । कर्तुः क्यङ् सलोपश्च । 'धातोः कर्मण:-' इति सूत्राद्वैत्यनु