________________
५१० ]
सिद्धान्तकौमुदी ।
[ नामधातु
स्यन्ते । श्रशनायति । उदन्यति । धनायति । बुभुक्षादौ किम्-अशनीयति । उदकीयति । धनीयति । २६६२ अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि । ( ७-१-५१ ) एषां क्यचि असुगागमः स्यात् । 'अश्ववृषयो मैथुनेछायाम्' (वा ४३०६ ) । अश्वस्यति वडवा । वृषस्यति गौः । 'चीरलवणयोलालसायाम्' (वा ४३१५ ) । तीरस्यति बालः । लवणस्यत्युष्ट्रः । 'सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ' ( वा ४६१६ - १७) दधिस्यति,
1
इत्यर्थः । भोक्तुमिच्छा बुभुक्षा । पातुमिच्छा पिपासा | गर्द्धः प्रभिकाङ्क्षा । अशनायतीति । श्रश्यते यत् तदशनम् श्रन्नम्, तद्भोक्तुमिच्छतीत्यर्थः । ' क्यचि च' इति ईत्त्वाभावो निपात्यते । 'अकृत्सार्व -' इति दीर्घः । उदन्यतीति । उदकं पातुमिच्छतीत्यर्थः । उदकशब्दस्य उदन्नादेशो निपात्यते नलोपाभावश्च । धनायतीति । जीवनार्थं सत्यपि धने अधिकं धनं वाञ्छतीत्यर्थः । ईत्वाभावो नेपात्यते । अशनीयतीति । श्रशनम् अनं तत्संग्रहीतुमिच्छति वैश्वदेवाद्यर्थमित्यर्थः । उदकीयतीति । सस्यादिखेचनार्थमुदकमिच्छतीत्यर्थः । धनीयतीति । दरिद्र सन् जीवनाय धनमिच्छतीत्यर्थः । अश्वक्षीर । क्यचि । परे असुगिति शेष' रणम्, 'आज सेरसुक्’ इत्यतस्तदनुवृत्तेरिति भावः । श्रसुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्त्यावयवः । अश्ववृषयोरिति । वार्तिकम् । श्रश्वस्यति वडवेति । मैथुनार्थमश्वमिच्छतीत्यर्थः । वृषस्यति । गौरिति । मैथुनार्थं वृषमिच्छतीत्यर्थः । 'वृषस्यन्ती तु कामुकी' इति कोशस्तु श्रश्ववृषरूपप्रकृत्यर्थपरित्यागेन मैथुने छामात्रे लाक्षणिकः । क्षीरलवणयोरिति । वार्तिकम् । असुगिति शेषः । लालसा उत्कटेच्छा | सर्वप्रातिपदिकानामिति । इदमपि वार्तिकम् । लालसाय सर्वेषां प्रातिपदिकानां क्यज्
भावोऽन्ययोर्दीर्घ इत्यपि ज्ञेयम् । इह यः सद्य एव भाक्तुमशनमिच्छति, यश्च पातुमुदकम्, यश्च धने सत्यपि पुनर्धनं तत्रोदाहरणानि । यस्तु कलान्तरोपयोगार्थमशनमिच्छति, यश्च स्नातुमुदकम् यश्च दरिद्रः सन् धनमिच्छति नत्र प्रत्युदाहरणानि । ननु 'उदन्या तु पिपासा तृद्' इति निघण्टौ परस्परसामानाधिकरण्यं न स्याद् उदन्याशब्दस्य उदकेच्छावाचित्वादिति चेत् । अत्राहुः - प्रशनायतीत्यादिषु श्रविवक्षितप्रकृत्यर्थं बुभुक्षापिपासादिकमेवार्थः तथा च नोक्तदोष इतेि । श्रश्वतीर । 'आज्जसेः-' इत्यतोऽसुगिति वर्तते । अश्वस्यतीति । मैथुनार्थमश्वमिच्छतीत्यर्थः । एवं मैथुनार्थं वृषमिच्छति वृषस्यति गौः । ननु ' इति रामो वृषस्यन्तीम्' इति प्रयोगो मनुष्यविषये कथं संगच्छत इति चेत् । अत्राहुः - अश्ववृषरूपप्रकृत्यर्थ परित्यागेन मैथुनेच्चैवार्थः, अत एव 'वृषस्यन्ती तु कामुकी' इति कोशोऽपि स्वरसतः संगच्छते
"