________________
प्रकरणम् ५७ ] मालमनोरमा-तत्त्वबोधिनीसहिता। [५०६ इति दीर्घः । कवीयति । वाध्यति । समिध्यति । २६६० क्यस्य विभाषा । (६-४-५०) इलः परयोः क्यच्क्यढोर्बोपो वा स्यादार्धधातुके । 'मादेः परस्य' (सू ४४)।' तो लोपः' (सू २३०८)। तस्य स्थानिवस्वाल्लघूपधगुणो न । समिधिता, समिध्यिता । 'मान्तप्रकृतिकसुबन्तादव्ययाच क्यज् न' (वा १७१४) । किमिच्छति । इदमिच्छति । स्वरिच्छति । २६६१ अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु । (७-४-३४) क्यजन्ता निपाइति । गार्ग्यशब्दात् ८ यचि विशेषमाह क्यव्योश्चेति । आपत्यस्य यजो यकारस्य लोप इति भावः । कृते यलोपे 'क्यचि च' इत्यकारस्य ईत्त्वं मत्वाह गार्गीयतीति । वात्सीयतीति । वात्स्यशब्दात् क्यचि पूर्ववत् । कविशब्दात् क्याचे विशेषमाह अकृरसार्वेति । वाच्यतीति । वाच्शब्दात् क्यचि 'नः क्ये' इति नियमेन पदत्वाभावान कुत्वम् । 'वचिस्वपि-' इति संप्रासारणं तु न, धातोः कार्यमुच्यमानं धातुविहितपत ये एवेति नियमात् । समिध्यतीति । समिध्शब्दात् क्यचि 'नः क्ये' इति निगमेन पदत्वाभावान्न जश्त्वम् । लुटस्तासि इटि 'समिध्य इ ता' स्थिते 'यस्य हलः' इति नित्ये यलोपे प्राप्ते क्यस्य विभाषा। 'यस्य हलः' इत्यतो हल इति पञ्चम्ट न्तमनुवर्तते । 'आर्धधातुके' इत्यधिकृतम्' तदाह हल: परयोः क्यच्क्यङोरिति । क्यष् तु नात्र गृह्यते, 'लोहितडाज्भ्यः क्यध्वचनम्-' इति वक्ष्यमाण तया हलन्तात्तदभावात् । अन्तलोपमाशङ्कयाह आदेः परस्येति । तथा च समिध् अ इता इति स्थिते आह अतो लोप इति । तथा च समिध् इता इति स्थिते लघूपधगुणमाशङ्कयाह तस्य स्थानिवत्त्वादिति । क्यसूत्रे 'मान्ताव्ययेभ्य प्रतिषेधः' इति वार्तिकम् । मान्तेभ्यः अव्ययभ्यश्च क्यचः प्रतिषेध इत्यर्थे पुरामात्मन इच्छति पुत्रीयतीत्यत्र न स्यात् । पुत्राविच्छतीत्या. दावेव स्यात् । मान्तानि अव्ययानि मान्ताव्ययानि तेभ्य इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात । अतस्तद्वार्तिकं विवृण्वन्नाह मान्तप्रकृतिकसुबन्ता. दव्ययाच क्यज् नेति । अशनायोदन्य । भशनाय, उदन्य, धनाय इत्येषां द्वन्द्वः । क्यजन्ता इति । एते त्रयः शब्दाः क्रमेण बुभुक्षादिष्वर्थेषु निपात्यन्ते मिति भावः । आपत्ययक रस्य लोपं स्मारयति क्यच्योश्चेति । 'नः क्ये' इति नियमेन पदत्वाभावात्कुत्वं नेत्याह वाच्यतीति । एवं समिध्यतीत्यत्र जश्त्वं नेति बोध्यम् । 'मान्ताव्ययेश: प्रतिषेधः' इति वार्तिकस्य यथाश्रुतव्याख्याने पुत्रमिच्छतीत्यत्रापि न स्यात् । पुसौ पुत्रान् वा इच्छतीत्यादावेव स्यात्, अतो व्याचष्टे मान्तप्रकृतिकादिति । अशनायोदन्य । क्यजन्ता इति । उदकशब्दस्योदन्