________________
THI
५०८ ] सिद्धान्तकौमुदी। [नामधातु. पूर्यति । धातोरित्येव । नेह-दिवमिच्छति दिव्यति । इह पुरमिच्छति पुर्यतीति माधवोकं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् । दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति 'रीकृतः' (सू १२३४) । कम्यति । 'क्यब्योश्च' (सू २११६) । गार्गीयति । वास्सीयति । 'अकृरसार्व-' (सू २२६८) स्यादित्यत आह धातोरित्येवेति । 'हलि च' इति सूत्रे 'सपि धातो:-' इत्यतस्तदनुवृत्तरिति भावः । दिव्यतीति । दिवशब्दः अव्युत्पन्नं प्रातिपदिकमिति भावः । इहेति । 'हलि च' इति सूत्रे धातोरित्यनुवृत्तेः पुर्यतीत्यत्र न दीर्घ इति माधवप्रन्यश्चिन्य इत्यर्थः। कुत इत्यत आह पूगिरोः साम्यादिति । 'गृ शब्दे, पृ पालनपूरणयोः' इत्याभ्यो विपि 'ऋत इद्धातोः' इति 'उदोष्ठयपूर्वस्य' इति च इत्त्वे उत्त्वे च कृते रपरत्वे गिर्शब्दस्य पुर्शब्दस्य च निष्पत्तेरिति भावः । प्रामा. दिक एवेति । दिवशब्दस्य अव्युत्पनप्रातिपदिकत्वान्न धातुत्वम् । दिव्धातोः क्विबन्ताद् ऊठि यूशब्दाच्च क्यचि द्यूयतीत्येव उचितम् । विचि तु लघूपधगुणे 'लोपो व्योः-' इति लोपे देशब्दात् क्यचि देयतीत्येवोचितमिति भावः । अदस्यतीति । अमुमात्मन इच्छतीत्यर्थे अदस्शब्दात् क्यनि सुपो लुका लुप्तत्वाद्विभक्तिपरकत्वाभावान त्यदाद्यत्वम् । सान्तत्वानोत्त्वमत्त्वे । 'नः क्ये' इति नियमेन पदान्तत्वाभावान • सस्य रुत्वमिति भावः । कर्तृशब्दात् स्यचि विशषमाह रीत 'नलोपः सुप्खर-' इति सूत्रे मनोरमायामुक्तं 'नियमसूत्राणां विधिमुखेन प्रवृत्तिः सामान्यशास्त्रतात्पर्यसङ्कोचकता च' इति पक्षस्य 'टुझ्यो लुनि' इति सूत्रे भाष्यकृता ध्वनितत्वादिति । तच्चिन्त्यम् , तत्सूत्रस्य भाष्यकारैरस्पृष्टत्वात् । केचित्तु 'युझ्यो लुडि' इत्यत्र ध्वनितत्वादिति वक्तव्ये सूत्रग्रहणं बहुव्रीहिलाभार्थम् । 'शुन्यो लुङि' इति सूत्रं यस्मिन्प्रकरणे तद् 'द्युझ्यो लुङि इति सूत्रम्' परस्मैपदप्रकरणमित्यर्थः । तत्र हि 'अनुपराभ्याम्-' इति सूत्रं वर्तत इति तत्सूत्रे यद् ध्वनितं तत्तु परस्मैपदप्रकरणे ध्वनितं भवति । यद्वा 'अनुपराभ्यां कृत्रः' इत्यत्र हि भाष्यकृता 'टुझ्यो लुङि' इति परामृष्टम् । तथा च 'टुझ्यो लुङि' इति सूत्रं यस्मिंस्तत् 'युधो लुङीति सूत्रम्' । 'अनुपराभ्यां कृत्रः' इति सूत्रमित्यर्थ इत्येवं कुकविकृतिवत् कथंचित्स्थितस्य गतिः समर्थनीयेत्याहुः । पूर्गिरोः साम्यादिति । गृ शब्दे, पृ पालनपूरणयोरित्येताभ्यां क्विपि 'ऋत इद्धातोः' 'उदोष्ठयपूर्वस्य' इति प्रवृत्तेरिति भावः । प्रामादिक एवेति । दिवुधातोः विपि तु यूरिति स्यात् । ततः क्याचि तु द्यूयती ते भवति । विपं विहाय विचि कृते तूपधागुणा वलोपश्च स्यात् । ततः क्यचि तु देवयतीति भवति । तथा च 'हलि च' इति सूत्रे वृत्तावपि 'धातोरित्येव नेह दिवमिच्छति दिव्यति' इत्येवोक्त