________________
प्रकरणम् ५७] यालमनोरमातत्त्वबोधिनीसहिता। [५०७ नलोपः, राजीयति । 'प्रत्ययोत्तरपदयोश्च' (सू १३७३) स्वद्यति मद्यति । एकार्थयोरित्येव, युष्मद्यति अस्मद्यति । 'हलि च' (सू ३५४) गीर्यति । गव्यितेति । इटि तो लोपः । राजीयतीत्यत्राह नलोप इति । राजानमिच्छतीत्यर्थे क्यचि राजन् य ति इति स्थिते 'नः क्ये' इति पदत्वान्न कारस्य लोप इत्यर्थः । कृते नलोपे 'क्यचि च' इत्यकारस्य ईत्त्वमिति मत्वाह राजीयतीति । न च ईत्वे कर्तव्ये नलोपस्यासिद्धत्वं शङ्कथम् , 'नलोपः सुप्स्वर-' इति नियमादित्यलम् । ननु त्वामात्म्न इच्छति, मामात्मन इच्छतीत्यत्र युष्मदस्मद्भया क्यचि धात्ववयवत्वात् सुपो लुकि प्रत्ययलक्षणाभावात् 'त्वमावेकवचने' इति कथं त्वमौ स्याताम् , विभक्तौ परत एव तद्विधानादित्यत आह प्रत्ययोत्तरपदयोश्चेति । सुपो लुका लुप्तत्वेऽपि व्यचमादाय मपर्यन्तस्य त्वमाविति भावः । ननु युष्मानात्मन इच्छति, अस्मानात्मन च्छति, युष्मद्यति अस्मद्यति इत्यत्रापि क्यचमादाय त्वमौ स्यातामित्यत आह एकार्थयोरित्येवेति । 'प्रत्ययोत्तरपदयोश्च' इत्यत्र 'त्वमावेकवचने' इति सूत्रमनुत्तम् । एकवचनशब्दश्च न रूढः, किंतु एकत्वविशिष्टार्थवृत्तित्वमेकवचनशब्देन विवक्षितमिति युष्मदस्मत्प्रक्रियायां प्रपञ्चितं प्राक् । तथा च युष्मदस्मदोरेकत्वविशिष्टार्थवृत्तित्वाभावान्न त्वमाविति भावः । गिरमात्मन इच्छति,. पुरमात्मन इच्छतीत्यत्र गिर्शब्दात्पुर्शब्दाच क्यचि विशेषमाह हलि चेति । उपधादीर्घ इति शेषः । ननु दिवमिच्छति दिव्यतीत्यत्रापि 'हलि च' इति दीर्घः अत्रान्तर्वर्तिविभक्त्या पदत्वाल्लोपो दुर्वारः स्यादित्याशङ्कयाह अपदान्तत्वादिति । इदं च समाधानस्य समाधानान्तरादूषकत्वादिति न्यायेन समाधिसौकर्यादुक्तम् । वस्तुतस्तु उक्तरीत्या शङ्केव नेति बोध्यम् । अन्ये तु वार्तिक एव प्रश्लेष इति द्वितीयपक्षमाश्रित्येदम् , सूत्रे वकार प्रश्लेषे लोपासंभवात् , न हि कार्थीति न्यायात् । न च वलीति निमित्तत्वेनाश्रयणात् तत्रापि लोपो भवत्येव । अन्यथा वलीत्येव कुर्यादिति वाच्यम् , वकारे परतो यकारलोपे तस्य निमित्तत्वेनाश्रयणावश्यकत्वादिति द्वितीयकल्प एव युक्त इत्याहुः । राजीयतीति । 'क्यचि च' इत्यवर्णस्य ईत्वे कर्तव्ये 'पूर्वत्रासिद्धम्' इति नलोपोऽसिद्धो न भवति, 'नलोपः सुप्खर-' इति नियमात् । यद्यपि नियमसूत्राणां निषेधमुखेन प्रवृत्तरिति 'नलोपः सुप्खर-' इति सूत्रं राजीयतीत्यादिषु पठनीयम् , राजभ्यामित्यादौ तु 'पूर्वत्रासिद्धम्' इति, नलोपस्यासिद्धत्वेन दीर्घायभावसिद्धेः, तथापि विधिमुखेन प्रवृत्तिरिति पक्षाभ्युपगमेन हलन्तेषु राजभ्यां राजभिरित्य. त्रैव पठितमिति ज्ञेयम् । न च विधिमुखप्रवृत्तिपक्षो निरालम्ब एवेति वाच्यम् , 'अनुपराभ्यां कृतः' इति सूत्रस्थभाष्यप्रन्थपर्यालोचनया तत्पक्षावगमात् । यत्तु