________________
५०६ ] सिद्धान्तकौमुदी। [नामधातुः सम्बन्धिनः सुबन्तादिच्छायामर्थे क्यच्प्रत्ययो वा स्यात् । धारः वयवत्वासुब्लुक् । २६५८ क्यचि च । (७-४-३३) श्रस्य ईत् स्यात् । प्रा मनः पुत्रमिच्छति पुत्रीयति । 'वान्तो यि प्रत्यये' (सू ६३) गम्यति । नाव्यति । 'लोपः शाकल्यस्य' (सू ६७) इति तु न । अपदान्तत्वात् । तथाहि २६१६ नः क्ये। (१-४-१५) क्यचि क्यङि च नान्तमंत्र पदं स्थानान्यत् । अनिपातपरिभाषया क्यचो यस्य लोपो न, गग्यांचकार । गयिता। नान्यांचकार । नाव्यिता। तदिदमभिप्रेत्याह इषिकर्मण एपितृसम्बन्धिन इत्यादिना । एषित्रया दिषिकर्मण इत्यर्थः । एषित्रा स्वार्थ यदिष्यते कर्मकारकं तद्वाचकार सुबन्तादिति यावत् । धात्ववयवत्वादिति । सुबन्तात् क्यचि कृते तदन्तस्य 'सनाद्यन्ना:-' इति धातुत्वादिति भावः । क्यचि च । 'अस्य च्यौ' इत्यतोऽस्येत्यनुवर्तते ई प्राध्मोः' इत्यत ईग्रहणं चेति मत्वा शेषं पूरयति अस्येति । अकारस्थेत्यर्थः । पुत्रीयतीति । क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीय इति धातोलेडादिरित्यर्थः । आत्मनः किम् ? राज्ञः पुत्रमिच्छति । पदविधित्वेन समर्थपरिभाषायाः प्रवृत्तेः महा-तं पुत्रमिच्छतीत्यत्र पुत्रशब्दान्न क्यच् । गव्यतीति । गामात्मन इच्छतीत्यर्थः । ना यतीति । नावमास्मन इच्छतीत्यर्थः । अपदान्तत्वादिति । 'लोपः शाकल्यस्य' इत्यस्य पदान्त एव प्रवृत्तेरिति भावः । नन्वन्तर्वतिविभक्त्या पदत्वमस्त्येवेत्यत आह तथा होति । यथा पदत्वं न भवति तथोच्यत इत्यर्थः । नः क्ये। नकारादकार उच्चारर थिः । 'मुप्तिडन्तम्-' इत्यतः सुबन्तं पदमित्यनुवर्तते। सुबन्तं नकारेण विशेष्यते, दन्तविधिः । नकारान्तं सुबन्तं पदसंज्ञं स्यादिति लभ्यते । सुबन्तत्वादेव (दत्वे सिद्धे नियमाथमिदम् । क्यग्रहणेन क्यच्क्यकोग्रहणम् । न तु क्यषः, 'लो हेतडाभ्यः क्यवचनम्-' इति वक्ष्यमाणतया हलन्तात् क्यषोऽभावात् , तदाह क्यचि क्यङि चेत्यादिना। ननु गव्यांचकारेत्यत्र ग्राम प्रार्धधातुकत्वाता भन् पर वकाराद्धल उत्तरस्य यकारस्य 'यस्य हलः' इति लोप: स्यादित्यत श्राइ संनिपातेति । यकारनिभित्तकावादेशसंपन्नवकारस्य यकारलोपं प्रति निमित्तत्व संभवादेति भावः । खशब्दपर्यायः । स्वश्च क इत्याकाङ्क्षायामिच्छायाः सन्निधापि तत्वादेषितैव गृह्यते, तदाह एषितसंबन्धिन इति । सुबन्तस्योक्तविशेषणद्वयमद्वारकं बोध्यम् ।नः क्ये । 'लोहितडाज्भ्यः क्यष्वचनं मृशादिष्वितराणि' इति वदपमाणतया हलन्तात् क्यष् दुर्लभ इत्यभिप्रेत्याह क्यचि क्यङीति । एवं चेह कर षोल्यपि कश्चिदुक्तम् , तदुपेक्ष्यम् । 'यस्य हलः' इति लोपमाशङ्कयाह सन्निपातपरिभाषयेति । यकारे परे वान्तादेशविधानाद्वकारो यलोपस्य निमित्तं न भवतीति भाव । गव्यतीति ।