________________
प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५०३ तिबादीनामनार्धधात् कत्वात् । तोतोति । ‘हल्लि च' (सू ३५४ ) इति दीर्घः । नोपयतीत्यत्रापि गुण निषेधः स्यात् । तत्र यकारलोपस्य आर्धधातुकपरकत्व. सत्त्वादित्यतो व्याच धात्वंशलोपनिमित्त इति । धातुं लोपयतीति धातुलोपः, कर्मरायण । धातुलोपनिमित्त आर्धधातुके परे इति यावत् । लोलुव इत्यायुदाहरणम् । लूब्धातोर्यङन्तात् पवाद्यचि “योऽचि च' इत्यच्प्रत्ययमाश्रित्य यो लुकि, अच्प्रत्ययमाश्रित्य प्राप्तो गुणोऽनेन निषिध्यते । मरीमृज इति तु वृद्धिनिषेधोदाहरणम् । धात्विति किम् ? शीङ् , शयिता। इह उत्सृष्टानुवन्धस्य धातुत्वम् , नतु सानुबन्धस्येति कैयादिमते तु धातुग्रहणं स्पष्टार्थम् । इदं सूत्रं भाष्ये प्रत्याख्यातम् । हरदत्तेन पुनरु धृतम् । कौस्तुभे तु तदपि दूषयित्वा प्रत्याख्यातमेव । इति नेहेति । तोतोतीत्यत्र अयं गुणनिषेधो नेत्यर्थः । हलि चेति । तोतु तस् इति स्थिते 'लोपो व्योः-' इति वकारस्य लोपं बाधित्वा 'च्छ्वोः शूट -' इत्यूठि प्राप्ते, 'विति च' इति सूत्रे लैंगवायन इत्यत्र गुणनिषेधो मा भूदिति 'इग्लक्षणे गुणवृद्धी न स्तः' इति व्याख्यानम् , तथापि इह प्रयोजनाभावादिग्लक्षणे इति नोक्तम् । ध स्थिति किम् , लूञ् लविता । पूञ् पविता । नन्वत्रानुबन्धलोपनिमित्तमार्धधातुकं न भवतीति घाविकलमिदमिति चेत् । अत्राहुः-धातुग्रहणे सति धातोर्लोपो यस्मिन् इति बहुव्रीहिलाभाद् लोपनिमित्त इत्यर्थो लभ्यते, तदभावे तु लोपे सत्यार्धधातुक इत्याल्लवितेत्यादौ दोषः स्यादेवेति । यदा तु लोपयतीति लोपः, तस्मिल्लोपनिमित्ते आर्धधातुके इको गुण वृद्धी न स्त इति व्याख्यायते, तदा धातुग्रहणं स्पष्टप्रतिपत्त्यथम्। उत्सृष्टानुबन्धस्थ धातुत्वमिति कैयटादिमते तु धातुलोप इत्यत्र बहुव्रीह्याश्रयणं विनापि धात्ववयवलोप सत्यार्धधातुके इति व्याख्यायां लवितेत्यादौ नातिप्रसङ्ग इति बोध्यम् । आर्धधातुके किम्, 'त्रिधा बद्धो वृषभो रोरवीति' । रु शब्द इत्यस्माद् 'धातोरेकाच-' इति यङि तस्य लुक् । यङन्तस्य धातुत्वे यङो धात्ववयवत्वाल्लुप्तत्वाचात्रापि निषेधः स्यात्तन्माभूदिति । नन्वत्र यङ्लुकोऽनैमित्तिकत्वादिको लोपनिमि. तपरत्वं नास्तीति या विकलमिति चेत् । अत्राहुः--प्रार्धधातुकप्रहणे सति अन्यपदार्थलाभाद् बहुव्रीहिर्लभ्यते, तदभावे त्ववयवलोपे सति गुणवृद्धी न स्त इत्यर्थाद्रोरवीतीत्यत्र दोषः स्यादेवेति । केचित्तु धातुं लोपयतीति धातुलोपः, 'ठूलोपे-' इत्यत्रेव 'कर्मण्यमा' इत्यभ्युपेत्य व्यधिकरणबहुव्रीह्याश्रयणं विनैव धात्ववयवलोपनिमित्ते गुणवृद्धी न स इति व्याचक्षते । इक इति किम् , रागः, अभाजि । 'घनि च भावकरणयोः' इति रजेनलोपे कृते वृद्धिः। अभाजीत्यत्र तु 'भजेश्च चिणि' इति नलोपे वृद्धिः । इति नेह निषेध इति । सूत्रस्योदाहरणं तु लोलुवः, पोपुवः, मरी