________________
५०२ ] सिद्धान्तकौमुदी। [ यङ्लुक् मामूहि । मामवानि । श्रमामोत् । ममामोः अमामवम् ममामा अमानम । तुर्वी हिंसायाम् , तोर्वीति । २६५५ राल्लोपः । (१-४-२१) रेफा. स्परयोश्छ्वोर्लोपः स्यारक्को मलादावनुनासिकादौ च प्रत्यये । इति वलोपः । लघूपधगुणः। २६५६ न धातुलोप आर्धधातुके । (१-१-४) धात्वंशलोपनिमित्ते प्रार्धधातुके परे इको गुण वृद्धी न स्तः । इति नेह निषेधः, मामूहीति । ऊठि हेरपित्त्वेन ठित्वान्न गुणः । मामूतात मामूतम् मामूत । मामवानीति । आटः पित्त्वादङित्त्वाद् गुणः । मामवाव । मामवाम । लङस्तिध्याह अमामोदिति । अमामूताम् । अमामवुः । सिायाह अमामोरिति । अमामूतम् अमामूत । लिहि मामव्यात् । लुडि 'अस्तिसिचः -' इति नित्यमीट् । अमामवीत् अमामात्रीत् । अमामविष्यत् । ज्वरतेस्तु जाज्वरीति जाजूर्ति इत्यादि। त्वरतेस्तु तात्वरीति तातूर्ति इत्यादि । त्रिवेस्तु सेस्रवीति । ईडनावे तु ऊठि सेस्रोति इत्यादि । अवतेस्तु यङभावात् किप्युदाहरणम् । ऊः उवौ उवः इत्याग्रुह्यम् । तोतूर्वीतीति । 'उपधायां च' इति दीर्घः । ईडभावे तोतुर्व ति इति स्थिते
राल्लोपः। 'छवोः शूडनुनासिके च' इति सूत्रं शूडवर्जमनुवर्तते । 'अनुना. सिकस्य क्विझलो:-' इत्यतः क्विझलोरिति च । तदाह रेफा-परयोरित्यादि । अत्रापि विडतीति नानुवर्तते, पूर्वसूत्रे तदननुवृत्तेः । वलोप इति । तथा च तोतुर ति इति स्थिते उकारस्य लघूपधगुणः, तिपः पित्त्वेन अङित्त्वादित्यर्थः । न धातुलोपे । 'इको गुणवृद्धी' इत्यनुवर्तते । तत्र धातुलोपे सति इको गुणवृद्धी न स्त आर्धधातुके परत इत्यर्थे, लुग्धातोः यङन्तात् पचाद्यचि, यडो लुकि, लोलुव इत्यत्र गुणनिषेधाभावप्रसङ्गात् , अत्र धात्ववयवस्य यो लोपेऽपि धातोलौंपाभावात्। धात्ववयवलोपे सतीत्यर्थे तु शोधातोस्तृचि शयिता इत्यत्र गुणो न स्यात् , तत्र धात्ववयवठकारलोपसत्त्वात् । श्रार्धधातुके परे यो धात्ववयवलो' : तस्मिन् सतीत्यर्थे बोध्यम् । राल्लोपः। 'छोः शूड्-' इत्यतः च्छोरित्यनुवर्तते । क्वावुदाहरणम् । तः । तुरौ । तुरः । धुर्वी, धूः । धुरौ । धुरः। मुर्छा, मूः । मुरौ । मुरः । न घातुलोप। श्राधधातुके धातुलोपो नास्तीति लक्षणया व्या वष्टे धात्वंशति । यद्यपि 'दुरिणो लोपश्व' इत्यौणादिके रक्प्रत्यये धातुलोपः प्रसिद्धस्तथापि प्रयोजनवानप्रसिद्धः । इणो लुप्तत्वादेव गुणाप्रसङ्गात् । प्रत्ययसन्नियोगेन धातुलोपविधानाद् श्रार्धधातुकस्य निमित्तत्वमपि नास्ति । अत एव दूरमित्यत्र 'ढ़ लोपे-' इति दीर्घ कर्तव्ये धातुलोपस्य स्थानिवत्त्वं नास्ति, इह धातोर्लोपो यस्मिन्नि ते बहुव्रीहिर्विशेष्यं चार्धधातुकमित्याशयेनाह लोपनिमित्त इति । गुणवृद्धी न त इति । यद्यपि