________________
प्रकरणम् ५६] बालमनोरमा-तत्त्वबोधिनीसहिता। [ ५०१ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङिति इति नानुवर्तते । अवतेस्तुनि श्रोतुरिति दर्शनात । अनुनासिकग्रहणं चानुवर्तते, श्रवतर्मन्प्रत्यये तस्य टिलोपे प्रोम् इति दर्शनात् । ईडभावे उठि पिति गुणः । मामोति, मामवीति मामूतः मामवति । मामोषि । मामोमि मामावः मामूमः। मामोतु, मामूतात् । ज्वरादीनामिति । अवतेस्तुनीति । अवधातोरौणादिके तुन्प्रत्यये कृते, अकारवकारयोरूठि, तस्य गुणे, श्रोतुरिति दृश्यते । क्ङितीत्यनुवृत्तौ तु तन्न स्यादिति भावः । प्रोमिति । 'अवतेष्टिलोपश्च' इत्यौणादिकसूत्रम् । 'अव रक्षणे' इति धातोर्मन्प्रत्ययः स्यात् प्रत्ययस्य टेलॊपश्चेति तदर्थः। तथा च अव् म् इति स्थिते उपधाभूतस्ट अकारस्य वकारस्य च ऊठि तस्य गुणे श्रोमिति दृश्यते । 'ज्वरत्वर-' इत्यत्र अनुनासिकग्रहणाननुवृत्तौ तु मनि परे अवतरूट न स्यात् , किझलोरेव तद्विधि लाभादिति भावः । ऊठि पितीति । मवधातोर्यलुक् । मामव् ति इति स्थिते ईडभावपक्षे अकारवकारयोरेकस्मिन् ऊठि तिपः पित्त्वेन ठित्त्वाभावादूकारस्य गुणे मामोतीति रूपमित्यर्थः । उपधाया वकारस्य च प्रत्येकमूठ इति पक्षे सवर्णदीर्घः । पक्षद्वयमपि 'एकः पूर्वपरयोः' इत्यत्र भाष्ये स्पष्टम्। ईट्पक्षे आह मामवीतीति । अत्र ऊ न, क्वी झलादौ अनुनासिकादौ च प्रत्यये परे तद्विधानात् । मामूत इति । अकारवकारयोरूठि तसो ङित्त्वान गुण इति भावः। मामवतीति । 'अदभ्यस्तात्' इत्यत् ।मामवीषीति सिद्धवत्कृत्याह मामोषीति । झल्परकत्वाद् ऊम्, गुणः। मामूथः मामूथ । मामवीमि इति सिद्धवत्कृत्याह भामोमीति । अनुनासिकपरकत्वादूतु, गुणः। मामाव इति । मामव् वस् इति स्थिते परनिमित्ताभावादूट न । 'लोपो व्योः-' इति वलोपे 'अतो दी| यत्रि' इति दोघः। मामूम इति। मामव् मस् इति स्थिते अनुनासिक परकत्वादूठ । ठित्त्वान गुणः। मामांचकार । मामविता । मामविष्यति । लोटि आह मामोत्विति । मामूतादिति । छित्त्वान गुणः। मामूताम् मामवतु । तत्र विकतीत्येतद्रभसकृतमेवेत्याह किङतीति नानुवर्तत इति । अवतेस्तुनीति । 'ज्वरत्वर-' इत्युपधावकारयोरूठि गुणे च कृते श्रोतुरिति सिध्यति, नान्यथा । तेनात्र क्तिीति नानुवर्तनी यमिति भावः । अवतेरिति । उपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे वोमिति सिध्यतीत्यर्थः । ज्वरादेरुदाहरणं किपि-जूः । जूरौ । जूरः । झलादौ तु जूतिः। जूर्णः । जूर्णवान् । त्वर । तूः । तूरौ । तूरः। तूर्तिः। तूर्णः । तूपवान् । निवि । खूः । सुवो। बुवः । चूतिः । अवि, ऊः। उवौ । उवः । ऊतिः । मव, मूः । मुवी। मुवः। मूतः। मूतिः। मामोषीत्यादि । ईट्पक्षे । नामवीषि । मामवीमि । मामवीतु । अमामवीत् । अमामवीरिति