________________
प्रकरणम् ५६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४६६
नास्ति' इति 'च्छ्वो:-' ( सू २५६१ ) इति सूत्रे भाष्ये ध्वनितम् । कैयटेन स्पष्टी. कृतम् । इदं च 'वो:- ( सू २५६१ ) इति यत्रोठ तद्विषयकम् । 'उबरस्वर -' ( सू २६५४ ) इत्यू भाविनोः त्रिविमग्योस्तु यङ्लुगस्त्येवेति न्याय्यम् । ऊविषयाणामिति यावत् । ध्वनितमिति । सूचितमित्यर्थः । स्पष्टीकृतमिति । तथा हि 'च्छ्वो:' इति सूत्रे क्ङिदुग्रइणानुवृत्तौ कांश्चिद् दोषानुद्भाव्य परिहृत्य क्विप्रहणानुवृत्तिं स्वीकृत्योक्तं भाष्ये एतावानेव विशेषः । श्रनुवर्तमाने क्ङिदुप्रहणे छः षत्वं वक्तव्यमिति । अत्र कैयटः:- प्रष्टा पृष्टमित्यादौ 'च्छ्वो:' इति छस्य शत्वे कृते तस्य 'वश्व -' इति षत्वे ष्टुत्वमिति स्थितिः । तत्र कितीत्यनुवृत्तौ वस्य षत्वं न स्यात् । अतः छस्य षत्वं वक्तव्यमित्यर्थः । न च क्ङिदुमहणानुवृत्तावत्र शत्वाभावेऽपि न दोषः, वश्चादिना छ य षत्वे इष्टसिद्धेरिति वाच्यम्, 'च्छ्वो:-' इत्यत्र 'छस्य षत्वं वक्लव्यम्' इत्यनेनैव प्रष्टे यादिसिद्धेः व्रश्चादिसूत्रे छगदां न कर्तव्यमित्याशयात् । न च प्रडिति बिन्तात् सोर्लो ने षत्वार्थ वचादिसूत्रे छप्रहणमिति वाच्यम्, तत्रापि क्विनिमित्तशादेशस्य दुर्निवारत्वात् । विच् तु प्रच्छधातोरनभिधानान्नास्ति । एवं चात्र भाष्ये 'ऊद्भाविभ्यो यङ्लुङ नास्ति' इत्युक्तप्रायम् । अन्यथा ' च्छ्वोः -' इत्यत्र क्ङिग्रहणानुवृत्तौ दिवे ग्ङ्लुकि तिबादौ ईडभावे लघूपधगुणे 'लोपो व्योः-' इति वलोपे देदेति देदेषीत्याठः प्रभावे रूपम् । तदननुवृत्तौ तु वस्य ऊठि देद्योति देद्योषि इत्यादि रूपमिति विशेषस्य सत्मादेतावानेवेत्येवकारो विरुध्येत । श्रत ऊद्भाविनां यकारवकारान्तानां यङ्लुङ् नास्तीनि विज्ञायते इत्यलम् । इदं चेति । 'च्छ्वोः -' इति सूत्रेण यत्र ऊठ् प्रवर्तते तद्विषयक मेव इदम् उक्तं ज्ञापनमित्यर्थः । स्त्रिविभव्योस्त्विति । स्रिवु गतिशोषणयोः, मव्य बन्धने इत्यनयोरित्यर्थः । न्याय्यमिति । उक्तज्ञापनस्य ' च्छ्वो:
पाप्रड्ढि । पाप्रच्छानि । अपाप्रच्छीत्, अपाप्रद् । अपाप्रष्टाम् । अपाप्रच्छुः । श्रपाप्रच्छीः, अपाप्रट् । श्रपाप्रष्टम् । अपाप्रष्ट । अपाप्रच्छम् । श्रपाप । श्रपाम । भाष्ये ध्वनितमिति । 'च्छ्वोः शुड्-' इति सूत्रे भाष्ये किग्रहणमनुवर्तते न वैति विकल्प्य कांश्चिद्दोषानुद्भाव्य परिहृत्य चोकम्-एतावानेव विशेषः - अनुवर्तमाने किग्रहणे 'च्छः षत्वं वक्तव्यम्' इति, अननुवर्तमाने त्वनेन छः शत्वे कृते शान्तत्वादेव षो भविष्यतीति प्रष्टा प्रष्टुमित्यादिसिद्धये वश्वादिसूत्रे छग्रहणं न कर्तव्यमिति भावः । एवं हि वदता भाष्यकृता ऊठ्भाविभ्यो यङ्लुग् नास्तीत्युक्तप्रायम् । अन्यथा दिवेर्यङ्लुकि ईडभावपक्षे देदेति देदेषि इत्यादौ ऊठो भावाभावाभ्यां महान् विशेषः स्यात् । तत्र कि प्रहणाननुवृत्तावूठः प्रवृत्त्या देयोति देयोषीत्यादिरूपविशेषलाभात् । ततश्चैतावानेवेत्येवकारो विरुध्येत । त्रिविमव्योस्त्विति । निवु गतिशोषणयोः