________________
४६६ ] सिद्धान्तकौमुदी। [ यङ्लुक्हिता । 'अहोऽलिटि-' (सू २५६२ ) इति दीर्घस्तु न, तत्र एकाच इत्यनुवृत्तेः। माधवस्तु दीर्घमाह । तद्भाव्यविरुद्धम् । जधीति, जर्गर्द्धि जगूंछः जऍधति । न, ऋकारस्यानयत्वात् । जागृहात । सिपः पित्त्वान्न संसारणमिति मत्वाह जाग्रहीषि जाघ्रक्षीति । ईडभावे हस्य ढः, तस्य कः, सस्य षः, अभावः । जागृढः जागृढ । जापहीमि, जाग्रह्मि जागृतः जागृह्मः । इत्यनुवृत्तेरिति । 'एकाचो द्वे-' इति सूत्रे हरदत्तेन तथोक्तत्वादिति भावः । माधवस्विति । एकाग्रहणं नानुवर्तत इति तदाशयः । भाष्यविरुद्धमिति । 'एकाचो द्वे प्रथमस्य' इति सूत्रभाष्ये 'प्रह उपदाने' इत्यस्माद्यङि संप्रसाणे अभ्यासस्य रीकि यङन्ताद् जरीगृहिता, जरीगृहितम्, जरीगृहितव्यमित्यत्र इगे दीर्घामावं सिद्धवस्कृत्य तत्र दीर्घमाशय ग्रहोऽङ्गात्परस्य इटो दी? विधीयते । जरीगृह इत्यङ्गम् , तच्च न ग्रहधातुरिति निरूप्याङ्गविशेषणसामर्थ्यादेव 'प्रकृतिग्रहणे यङ्लुगन्तस्याऽपि ग्रहणम्' इति नात्र प्रवर्तत इति समाहितम् । यङन्ते उक्लो न्यायो यङ्लगन्तेऽपि जाग्रहितेत्यादौ समान इत्यादि प्रौढमनोरमायां ज्ञेयम् । न र हरदत्तमत एकाग्रहणानुवृत्त्येवात्र दीर्घनिवारणे सति भाष्योक्तमिदं समाधानं नादरणीयमिति वाच्यम् , उपायस्य उपायान्तरादूषकत्वादित्यलम् । जाप्रहिष्यति । जाग्रहीतु, जाग्राढु, जागृढात् जागृढाम् जागृहतु । हौ जागृडि । जाग्रहाणि लडि अजाग्रहीत , अजाघ्रट अजागृढाम् । अजागृढम् अजागृढ । अजाग्रहम् भजागृह अजागृह्म । इति संप्रसारणमिह नेति भावः। जागृढ इति। 'दीर्थोऽकितः। तत्रैकाच इति। 'ग्रहो लिटि-' इत्यत्रैकाच इत्यनुवर्तत इति 'एकाचो द्वे-' इत्यस्मिन् सूत्र हरदनेनोक्तत्वादिति भावः । माधवस्त्विति । अयं भावः---'ग्रहोऽलिटि-' इति सू। बब्लोपे चोक्तमिति वार्तिकतदीयभाष्यकैयटादिपर्यालोचनया जरीगृहीतेत्यादिषु हेर्यङन्तातचस्तासेवा य इद तस्य दीर्घाभावे युक्तिद्वयं लभ्यते। पूर्वस्मादपि विधौ शानिवद्भाव इत्येके । प्रहेर्विहितो य इट् तस्य दीर्घ इत्यपरे । तत्राद्या पक्षो भागवार्तिककाररीत्या । ताभ्यां हि 'पूर्वत्रासिद्धे न स्थानिवत्' इत्यवष्टभ्य दोघांदिग्रहणस्य प्रत्याख्यानात् । पादिकदीर्घातिरिक्तदीर्घऽस्मिन् कर्तव्ये स्थानिवद्भावस्य तन्मते सुवचत्वात् । द्वितीयस्तु सूत्ररीत्या, तेन तु सामान्यतो दीर्घविधौ सानिवद्भावस्य निषिद्धत्वातन्मते स्थानिवद्भावस्य वक्तुमशक्यत्वात् । एवं च यत् लुकि दीर्घप्रवृत्तौ न किंचिद् बाधकम् । यङ्लुकोऽनैमित्तिकत्वाद् अज्मलादेशत्वाच्च । स्थानिवद्भावायोगात् । 'द्विःप्रयोगो द्विर्वचनं षाष्ठम्' इति सिद्धान्ताद्यङ्लुगन्ताद् गृह्णातेर्विहितस्य प्रहेर्विहितत्वानपायाच। तद्भाष्यादिविरुद्धमिति । आदिशब्देन कैयटहरदत्तौ