________________
४६० ]
सिद्धान्तकौमुदी ।
{ यहलु
9
जाहीहि । श्रजात्, अजाहात् अजाहीताम् अजाहुः । जाहीयात् । श्राशिषि जाहायात् । अजाहासीत् श्रजाहासिष्टाम् । श्रजाहिष्यत् । लुका लुप्ते प्रत्ययलक्षणाभावात् ' स्वपिस्यमि-' ( सू २६४५ ) इत्युत्वं न, 'रुदादिभ्यः -' ( सू २४७४ ) इति गणनिर्दिष्टत्वादियन सास्वपीति, सास्वप्ति सास्वतः सास्वापति । असास्वपीत्, असास्वप् । सास्वप्यात् । श्राशिषि तु 'वचिस्वपि -' ( सू २४०९ ) इत्युश्वम्, सासुध्यात् । श्रसास्वापीत् श्रसास्वपीत् । २६५२ रुग्रिकौ च लुकि । ( ७-४-६१ ) ऋदुपधस्य धातोरभ्यासस्य रुक्, रिक्, रीक् एते श्रागमाः स्युर्यङ्लुकि । २६५३ ऋतश्च । ( ७-४ - १२) ऋदन्तधातोरपि
"
जाहातु, जाहीतात् जाहीताम् जातु । जाहीहीति । हेरपित्वेन ङित्त्वादीत्त्वम् । इद्द 'आच हौं' इति न । विधिलिब्याह जाहीयादिति । 'ई हल्यघा:' इति ईत्त्वमेव । 'लोपो यि' इत्याल्लोपस्तु न । आशिषि जाहायादिति । इह 'घुमास्था-' इति ईत्त्वं न । 'एर्लिङि' इत्यपि न । जाहासीदिति । 'यमरम-' इति सगिटौ । ञि ष्वप् शये । अस्य यङ्लुकि 'स्वपिस्यमिव्येषां यङि इति सप्रसारणमाशङ्कयाह लुका लुप्त इति । उत्त्वं नेति । वस्य संप्रसारणं नेत्यर्थः । इडभावपचे 'रुदादिभ्यः -' इति इटमाशङ्कयाह रुदादिभ्य इति । असास्वप् इति । लङस्तिपि ईडभावे इल्यादिलोपः । असास्वापीत् इति । 'अतो हलादे:-' इति वृद्धिविकल्पः । 'अस्तिसिच:-' इति नित्यमीट् । रुग्रिकौ च लुकि । 'रीगृदुपधस्य च' इत्यत ऋदुपधस्येत्यनुवर्तते । रिगपि इह चकारात् समुच्चीयते । 'अत्र लोपः -' इत्यतः अभ्यासस्येत्यनुवर्तते । 'गुणो यङ्लुको:' इत्यतो यङ्ग्रहणं च तदाह ऋदुपधस्येत्यादिना । रुकि उकार उच्चारणार्थः । रिकि तु इकारः श्रूय्त एव । एवं रोकि ईकारश्च व्याख्यानात् । ऋतश्च । तथेति । श्रभ्यासस्य रुक् रिक् रीक् एते श्रागमाः स्युर्यब्लुकीत्यर्थः । वृतु वर्तने, श्रस्माद्यङ्लुगन्ताद् वनृत् इत्यम्माल्लटस्तिपि ईट्पक्षे
वञ्चतीत्यादाविव कित्त्वाभावान्न दोषः । किं च द्वित्वाभावे केवलस्यार्थवत्त्वेऽपि द्विवे सति समुदाय एवार्थवानिति हि सर्वसंमतम् । तथा कित्त्वमपि समुदायस्यैवास्तु, न तु प्रत्यवयवमिति नास्त्येव दीर्घे प्रतिबन्धः । जाहीयादिति । 'ई इल्यघोः' इतीत्वम् । लुका लुप्त इति । सर्वविधिभ्यो लुग्विधेर्बलीयस्त्वादकृतव्यूहपरिभाषया च लुकः पूर्वं न शङ्कयमेवेति भावः । उत्वं नेति । फलितार्थकथनमिदम् । 'खपिस्यमि-' इत्यादिना विधीयमानं यत्संप्रसारणं तन्नेत्यर्थः । असास्वापीदिति । 'तो हलादे:- ' इति विकल्पेन वृद्धिः । रुग्रिकौ च । चकारेण 'रीगृदुपधस्य -' इत्यतो रीगनुकृष्यते । रुक उकार उच्चारणार्थः । ऋतश्च । ऋताऽनुवर्तमानमङ्गं विशेष्यते । ऋदन्तस्या