________________
प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४८६ नोनवीति, नोनोति । जाहेति, जाहाति । •ई हल्यघोः' (सू २४६७) जाहीतः। इह 'जहातेश्च' (सू २४६८ ) 'श्रा च हो' : (सू २४६६) 'लोपो यि' (स् २१००) 'घुमास्था-' (सू २४६२) 'एलिङि' (सू २३७४) इत्येते पश्चापि न भवन्ति, श्तिपा निर्देशात् । जाहति । जाहासि, जाहेषि जाहीथः जाहीथ । दीर्घ इति । 'अकृत्सार्वधातुकयो:-' इत्यनेनेति भावः । अयोयावीदिति । ईटि सिचि वृद्धिः । नुधातोरपि युधातुवद्रूपाणीति मत्वाह नोनवीतीति । हाल्हाकोर्यङ्लुकि तुल्यानि रूपाणि । ङित्त्वप्रयुक्तात्मनेपदस्य यङ्लुकि अप्रवृत्तेक्वत्वादिति मत्वाह जाहेतीति । हाहाकार्यङ्लुगन्ताल्लटस्तिपि ईटि आद्गुणे रूपम् । न च हाङोऽभ्यासस्य 'भृञामित् इति इत्त्वम् , हाकस्तु तन्नास्ति, मृञ् माङ् ओहाङ् एषां त्रयाणामेव तत्र ग्रहणात् । तत् कथं हाहाकोस्तुल्यत्वमिति शङ्कयम् , 'भृञामित्' इत्यस्य श्लावेव प्रवृत्तेः । न चाकित इति निषेधाद् हाकोऽभ्यासस्य दार्घाभावात् कथमुभयोस्तुल्यरूपत्वमिति वाच्यम् , क् इत् यस्य स कित् , न विद्यते किद् यस्य स अकित् , तस्य अकित इति बहुव्रीहिगर्भबहुव्रीह्याश्रयणात् । इह च हाको धातोः कित्त्वेऽपि न किद्वत्त्वम् । तदभ्यासस्य तु दूरेतरां न किद्वत्त्वम् । 'द्विः प्रयोगो द्विवचनं षाष्ठम्' इति सिद्धान्तात् । बहुव्रीह्याश्रयणसामर्थ्यादेव व्यपदेशिवत्त्वेन हाको न किद्वत्त्वम् । अतो हाकोऽप्यभ्यासदी? निर्बाध इति भावः । जाहीत इति । हाहाकोस्तसि ईत्वमेव । ननु हाको 'जहातेश्व' इति इत्त्वविकल्पः कुतो नेत्यत आह इहेति । हलादौ क्लिति सार्वधातुके 'जहातेश्च' इति इत्त्वविकल्पः, तथा 'आ च हौ' इति जहातेही परे प्रात्वमित्त्वमीत्वं च, तथा 'लोपो यि' इति यादौ सार्वधातुके जहातेराल्लोपश्च, तथा 'घुमास्था-' इति जहातेहलादौ वित्यार्धधातुके ईत्वं च, तथा 'एलिडि' इति जहातरार्धधातुके किति लिङयेत्त्वं च इत्येते पञ्चापि विधयो यङ्लुकि न भवन्तीत्यर्थः । कुत इत्यत आह शितपेति । एवं च जाहीत इत्यत्र 'ई हल्यघोः' इति ईत्त्वमेव, न त्वित्त्वविकल्प इति स्थितम्। जाहतीति । 'अदभ्यस्तात्' इत्यदादेशः, "श्नाभ्यस्तयो:-' इत्याल्लोपः । जाहांचकार । जाहिता । जाहिष्यति । जाहेतु, सन-' इत्यात्वम् । श्रचढानीदिति । 'अतो हलादेः-' इति वा वृद्धिः । जाहेतीत्यादि । हाहाकोस्तुल्यानि रूपाणि। ङित्त्वप्रयुक्तस्यात्मनेपदस्य यङ्लुक्य. प्रवृत्तेः । “भृञामित्' इति हाङ इत्त्वस्य श्लुनिमित्ताभ्यासस्यैव विहितत्वाच्च । न च अकित इति निषेधेन हाकोऽभ्यासस्य दी| दुर्लभ इति कथमुभयोस्तुल्यरूपतेति शङ्कयम् , अकित इत्यत्र हि न विद्यते किद्यस्याभ्यासस्येति बहुव्रीहिराश्रीयते, तेन "द्विःप्रयोगो द्विवेचनं पाष्टम्' इत्यभ्युपगमाद्धातोः कित्त्वे अभ्यासस्य कित्त्वेऽपि वनी