________________
प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४८७ तु न भवति, स्थानिवस्वेन 'अनम्यासस्य' इति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् , बहुव्रीहिबलात् । आयूर्वात्तु 'प्राडो यमहना' (सू २६६१) इत्यात्मनेपदम् , माजते इत्यादि । 'उत्परस्य-' (सू २६३७) इति तपरस्वान्न गुणः, 'हलि च' (सू ३५० ) इति दीर्घस्त स्यादेव, तस्या. इति स्थिते हल्ब्यादिलोप इति भावः । आशिषि तु वध्यादिति । जङ्घम् इत्यस्मादाशीलिङि 'हनो वध लिङि' इति वधादेशः, प्रकृतिप्रहणेन यङ्लुगन्तस्यापि प्रहणादिति भावः। अवधीदिति । जङ्घन् इत्यस्माल्लुस्तिपि 'लुडि च' इति वधादेशे 'अस्तिसिचः-' इति नित्यमीडिति भावः । ननु हनो यङ्लुगन्ताद् श्राशी. लिङि लुरुश्च तिपि द्वित्वात्प्रागेव वधादेशे कृते तस्य द्वित्वं कुतो न स्यादित्यत आह वधादेशस्य द्वित्वं तु न भवतीति । कुत इत्यत आह स्थानिवत्वेनेति । वधादेशात्परत्वादादौ द्वित्वे कृते सति कृतद्विवेचनस्य स्थाने वधादेशः। तस्य च स्थानिवत्त्वेन साभ्यासतया अनभ्यासस्येति निषेधान्न द्वित्वमित्यर्थः । ननु साभ्यासस्य स्थाने भवन् वधादेशः स्थानिवत्त्वेन साभ्यासोऽस्तु । द्वित्वं तु दुर्वारम् । साभ्यासत्वेऽप्यभ्यासानात्मकत्वाद् अनभ्यासस्येत्यनेन धातोरवयवस्याभ्यासस्य द्वित्वनिषेधादित्यत आह तद्धीति। धात्ववयवस्य अभ्यासस्येति नार्थः । किंतु अनभ्यासो यो धातुः तदवयवस्यैकाच इत्येवम् अनभ्यासग्रहणं सामानाधिकरण्येन धातोर्विशेषणमित्यर्थः । नन्वेवमपि न अभ्यासः अनभ्यास इति. विग्रहे द्वित्वं दुर्निवारमेव, वधादेशस्य स्थानिवत्त्वेन साभ्यासत्वेऽप्यभ्यासानात्मकत्वादित्यत आह बहुव्रीहिबलादिति । न विद्यते अभ्यासो यस्य धातोरिति बहुव्रीहिमाश्रित्य अनभ्यासस्येत्येतद्धातोः सामानाधिकरण्येन विशेषणमित्यर्थः । प्रकृते च वधादेशस्य स्थानिवत्त्वेन साभ्यासत्वादभ्यासहीनत्वाभावान द्वित्वमिति भावः । प्रापूर्वात्त्विति । यलुगन्ताद्धनधातोरिति शेषः । 'प्राडो यमहनः' इत्यत्र हन्ग्रहणेन यङ्लुगन्तस्यापि ग्रहणम्, प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणादिति भावः । उत्परस्येति । चर गतौ भक्षणे च, अस्माद्यङ्लुकि लटस्तिपि ईडभावे द्वित्वे 'चरफलोश्च' इत्यभ्यासस्य नुक् । 'उत्परस्यातः' इत्युत्तरखण्डे अकारस्य उत्त्वम्, 'हलि च' इति दीर्घः । चञ्चूर्तीति रूपम् । तिपमाश्रित्य उकारस्य लघूपधगुणस्तु न, उदिति तपरकरणसामर्थ्यात् । अन्यथा उरित्युक्तेऽपि 'भाव्यमानोऽण सवर्णान् न द्वित्वं तु न भवतीति । वध्यात् अवधीदित्यत्र कृतद्विर्वचनस्य 'हनो वध लिङि', 'लुकि च' इति वधादेशात्पुनद्वित्वं न भवतीत्यर्थः । तत्र हेतुमाह स्थानिवत्त्वेनेति । आपूर्वादिति । प्रकृतिप्रहणे यङ्लुगन्तस्यापि प्रहणादिति भावः ।