________________
४८६ ]
सिद्धान्तकौमुदी। [यङ्लुक'हयन्त-' (सू २२६६ ) इति न वृद्धिः, अजनमीत् अजङ्गमिष्टाम् । हन्ते. यंलुक्, 'अभ्यासाच' (सू २४३०) इति कुत्वं यद्यपि 'हो इन्तेः-' (सू ३५८) इस्यतो हन्तेरिस्यनुवर्त्य विहितम् , तथापि यङ्लुकि भवस्येवेति न्यासकारः, 'श्तिपा शपा-' (प १३२) इति निषेधस्त्वनित्यः, 'गुणो यङ्लुकोः' (सू २६३०) इति समान्यापेचज्ञापकादिति भावः । जङ्घनीति, जवन्ति जङ्घतः जनति । जङ्खनिता । श्तिपा निर्देशाज्जादेशो न, जहि । भजनीत , अजङ्घन् । जङ्ग. भ्यात् । आशिषि तु वध्यात् । अवधीत् अवधिष्टामित्यादि । वधादेशस्य द्वित्वं अजगताम् अजग्मुः । अजान् अजातम् अजङ्गत । अजङ्गमम् अजङ्गन्व अजङ्गन्म। लुडि अजङ्गमीदित्यत्र 'पुषादिद्युताय्लूदित:--' इत्यलमाशङ्कथाह अनुबन्धेति । हन्तेर्यलगिति । हिंसाथै क्रियासमभिहारे, गत्यर्थत्वे तु कौटिल्य इति बोध्यम् । हन्तेरित्यनुवत्येति । तथा च 'श्तिपा शपा-' इति निषेधात्कथमिह हन्तेः कुत्वमित्यांक्षेपः । गुण इति । 'गुणो यङ्लुकोः' इति ज्ञापकादित्यन्वयः । 'एकाचो द्वे प्रथमस्य' इत्यत्र एकाज्ग्रहणाद्यङलुकि द्विवचनस्याप्रवृत्त्या अभ्यासाभावाद् 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणविधानं व्यर्थ सत् 'श्तिपा शपाइत्यादिनिषेधस्य कचिद्यङ्लुकि अप्रवृत्ति ज्ञापयतीत्यर्थः । नन्वेकान्ग्रहणविधेरेव यङ्लुकि क्वचिदप्रवृत्तिज्ञापनलाभेऽपि हन्तः इति श्तिपा निर्देशनिमित्तकनिषेधस्य कथं यङ्लुकि अप्रवृत्तिः स्यादित्यत आह सामान्यापेक्षेति । 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणविधानमेकाज्ग्रहणस्यानित्यत्वं ज्ञापयत् तह चनोपात्तत्वसामान्यात् 'श्तिपा शपा-' इत्यादिसर्वनिषेधानां यलुकि कचिदप्रवृत्तिं ज्ञापयतीत्यर्थः । इति भाव इति । न्यासकृत इति शेषः । जङ्घनीतीति । 'नुगतः-' इति नुक् । जङ्घत इति । 'अनुदात्तोपदेश-' इत्यनुनासिकलोपः । जञ्जतीति । 'गमहन-' इत्युपधालोपः। जङ्घनितेति । एकाग्रहणादिरिनषेधो न । जङ्घहीत्यत्र 'इन्तेजः' इत्याशङ्क्याह शितपेति । अजवनिति । लङस्तिपि ईडभावे अजङ्घन् त् जङ्गमीतीति । 'नुगतोऽनुनासिकान्तस्य' इति नुक् । जङ्ग्मतीति । 'गमहन-' इत्युपधालोपः । अजङ्गन्निति । ईट्पक्षे त्वजङ्गमीत् । अजङ्गताम् । अजग्मुः। अजङ्गमीः । अजङ्गतम् । अजात । अजङ्गमम् । अजन्व । अजगन्म । सामन्यापेक्षेति । अयं भावः-एकाच इत्यत्रैकाग्रहणादाङ्लुकि द्विवचनं न कुत्रापि प्राप्नोति । तथा च 'गुणो यङ्लुकोः' इत्यभ्यासस्य विधीयमानो गुणो द्विर्वचनं विना निवेशमलभमानः सन् 'श्तिपाशपा-' इति सर्वेषामपि निषेधानां क्वचि. डब्लुक्यप्रवृत्तिं ज्ञापयतीति । तथा च प्रयुज्यते-'राजा वृत्रमजङ्घनत्' इत्यादि ।