________________
प्रकरणम् ५६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ४८५
वनीवक्ति वनीवलः वनीवचति । अवनीवचीत्, अननीवन् । जङ्गमीति, जङ्गन्ति । 'अनुदात्तोपदेश -' ( सू २४२८ ) इत्यनुनासिकलोपः । जङ्गतः । जमति । 'स्वोश्च' ( सू २३०९ ) । जङ्गमि । जङ्गन्वः । एकाज्ग्रहणेनोकस्वात्रेयिनषेधः । जङ्गमिता । श्रनुनासिकलोपस्या भी यत्वेनासिद्धत्वान्न हेर्लुक् । जङ्गहि | 'मोनो धातो:' ( सू ३४१ ), अजङ्गन् । अनुबन्ध निर्देशान कलेरङ्,
1
इति । लङ : सिपि इडभावे श्रचोकुर्द स् इति स्थिते 'दश्च' इति रुत्वपक्षे हल्ङयादिना सलोपे 'रो रि' इति प्रथमरेफलोपे दीर्घे दकारस्थानिकरेफस्य विसर्गे चोकूरिति रूपमित्यर्थः । अचोखुरिति । खुर्दधातोर्यङ्लुगन्ताद् लङः सिपि कुर्दवद्रूपम् ।
I
जोरिति । गुर्दधातोर्यङ्लुगन्तात् सिपि रूपम् । वनीवञ्चीतीति । चु गतौ, श्रस्माद् 'नित्यं कौटिल्ये गतौ' इति यङन्तस्य लुक् । द्वित्वादि । 'नीग्वञ्चु-' इत्यादिना अभ्यासस्य नीगागमः । यङो लुका लुप्तत्वान्न तदाश्रितो नलोपः । तिपः पित्त्वेन त्र्यङित्त्वान्न तदाश्रितोऽपि नलोपः । इकारोच्चारणसामर्थ्यानीको न गुणः । अन्यथा निकमेव विदध्यात् । न च 'नीग्वञ्चु -' इत्यनुबन्ध निर्देशाद्यङ्लुकि नीग् दुर्लभ इति शङ्कथम्, तत्र यङ्लुकोः इत्यनुवृत्तिसामर्थ्येन प्रदोषादिति भावः । वनीवङ्कीति । इडभावे चस्य कुत्वेन कः । नकारस्थानिकानुस्वारस्य परसवर्णो डकार इति भावः । वनीवक्त इति । तसो ङित्वादिह स्यादेव 'अनिदिताम् -' इति नलोपः । लोटि वनीवचीतु, वनीवक्तु, वनीवक्वात् वनीवक्लाम् वनीवचतु | हेर्धिः, प्रपित्त्वेन ङित्त्वान्नलोपः श्रत एव ईडपि न, वनीवग्धि । वनीवञ्चानि, घाटः पित्त्वादङित्त्वान्नलोपो न । लङि तिपि ईट्पक्षे यह अवनीवञ्चीदिति । ईडभावे स्वाद अवनीवन् इति । हल्ब्यादिना तलोपे चकारस्य संयोगान्तलोपः । जङ्गमीतीति । गमेर्यङ्लुगन्ताल्लटस्तिपि इट् । ' नुगतोऽनुनासिकान्तस्य' इति नुक् । ‘नश्च' इत्यनुखारः परसवर्णश्चेति भावः । तसि श्राह अनुदात्तेति । जङ्ग्मतीति । 'गमन -' इत्युपधालोप इति भावः । ननु गमेरनिट्त्वात् प्रकृतिप्रहणे यङ्लुगन्तस्यापि ग्रहणाज्जङ्गमितेत्यत्र कथमिडित्यत आह एकाज्ग्रहणेनेति । ननु जङ्गद्दीत्यत्र अनुनासिकलोपे कृते ‘अतो हे:' इति लुक् स्यादित्यत श्राह अनुनासिकलोपस्येति । लङस्तिपि अजङ्गमीदिति सिद्धवत्कृत्य ईडभावे श्राह भो न इति । अजङ्गम् त् इति स्थिते हल्ड्यादिना तलोपे 'मो नो धातोः' इति मस्य न इत्यर्थः, तदाह अजङ्गन्निति ।
,
इत्यभ्यासस्य नीगागमः । यङो लुका लुप्तत्वाद् न तदाश्रितो नलोपः । वनीवक्त इति । सोऽत्त्वादिह स्यादेव 'अनिदिताम् -' इति नलोपः । लोटि वनीवञ्चीतु । वनीवक्तु । वनीवक्तात् । वनीवक्ताम् । वनीवचतु । वनीवग्धि । वनीवञ्चानि ।