________________
४८४]
सिद्धान्तकौमुदी। [यङ्लुक्अदाधत् । लुङि प्रदादाधीत् , अदादधीत् । चोस्कुन्दीति, चोस्कुन्ति । अचो. स्कुन् प्रचोस्कुन्ताम् अचोस्कुन्दुः । मोमुदीति, मोमोत्ति । मोमोदांचकार । मोमोदिता। अमोमुदीत्, अमोमोत् अमोमुत्ताम् अमोमुदुः। अमीमुदीः, अमोमोः, अमोमोत् । लुङि गुणः, अमोमोदीत् । चोकूर्ति, चोकूर्दीति । लङ्, तिम् , प्रचोकू , प्रचोकूर्दीत् । सिप्पो अचोकूः । अचोखूः । अजोगः । वनीवचीति, अदादधीदिति । 'अतो हलादेः-' इति वृद्धिविकल्पः । अदाधिष्टाम् इत्यादि । स्कुदि आप्रवणे, इदित्त्वान्नुम् । अस्माद्यङ्लुकि उदाहरति चोस्कुन्दीतीति । ईटि रूपम् । तदभावे त्वाह चोस्कुन्तीति । 'झरो झरि सवर्णे' इति दकारस्य लोपविकल्पः । इह यडो लुप्तत्वादिदित्त्वाच यडं तिढं चाश्रित्य नलोगो न । लङि ईटपक्षे अचोस्कुन्दीदिति सिद्धवत्कृत्य इडभावे आह अचोस्कुन्निति । अचोस्कुन् द् त् इति स्थिते हल्ङयादिना तकारलोपे दकारस्य संयोगान्तलोपः । लुडि तु 'अस्तिसिच:-' इति नित्यमीट् । अचोस्कुन्दीत् अचोस्कुन्दिष्टाम् इत्यादि। मामुदीतीति । मुद हर्षे इटि 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति लघूपधगुणो न ! मोमोत्तीति । ईडभावे अच्परकत्वाभावाद् 'नाभ्यस्तस्याचि-' इति लघूपधगुणनिषेधो न । मोमोदितेति । 'न धातुलोप प्रार्धधातुके' इति गुणनिषेधस्तु न, धात्वंशलोपनिमित्त आर्धधातुके परे एव तन्निषेधस्य प्रवृत्तः, इह च यङ्लुक अनैमित्तिकत्वस्य उक्तत्वात् । लुङि गुण इति । सिन्निमित्तक इति शेषः । अतो 'नाभ्यस्तस्य-' इति गुणनिषेधो न शयः । चोकृर्तीति । कुर्द क्रीडायाम् , यङ्लुग द्वित्वादि । ईडभावे 'उपधायां च' इति दीर्घः । अचोकूत इति । लङस्तिपि अचोकूई त् इति स्थिते हल्ल्यादिलोपे 'रात्सस्य' इति नियमान संयोगान्त लोप इति भावः । सिप्पने धारणे। ईट्पक्षे दादधीति । लुङि 'अतो हलादेः-' इति वा वृद्धिः । चोस्कुन्दीति । स्कुदि आप्रवणे। 'इदितः-' इति नुम् । ईडभावे 'झरो झरि सवणे' इति वा लोपः । लङि ईट्पक्षे अचोस्कुन्दीत् । लकि तु 'अस्तिसिचः' इति नित्यमीद । अचोस्कुन्दीत् । अचोस्कुन्दिष्टाम् । मोमुदीतीति । मुद हर्षे । 'नाभ्यस्तस्याचि-' इति लघूपधगुणनिषेधः। मोमोदितेति । न चात्र 'न धातु लोप-' इति गुणनिषेधः शङ्कयः, बहुलग्रहणेन प्राप्तस्य यङ्लुकोऽनैमित्तिकत्वात् । लुङि गुण इति। सिज्निमित्तकोऽयं गुणस्तेन 'नाभ्यस्तस्याचि-' इति निषेधो न शनीय इति भावः । चोकूर्तीति । कुर्द खुर्द गुर्द गुद क्रीडायाम् । लङि तिपि । ईट्पक्षे अचोकूदीत् । अचोखूर्दीत् । अजोगूर्दीत् । पक्षे अचोकूरिति । 'दश्च' इति रुत्वपक्षे इत्यर्थः । वनीवञ्चीतीति । वञ्चु गतौ । 'नित्यं कौटिल्ये गतौ' इति यछ् । 'नीग्वञ्चु-'