________________
प्रकरणम्.५६] बालमनोरमा तत्त्वबोधिनीसहिता [४८३ नानात्तः । दध, दाददि दाददः । दाधरिस । अदाधत् प्रदादधुः । अदाधः, जागाधति । सिपि ईट्पक्षे जागाधीषीति सिद्धवकृत्य ईडभावपक्षे आह जाघा
सीति । जागाध् सि इति स्थिते 'एकाचो बशः-' इति गस्य भष् धस्य चर्वमिति भावः । जागाद्धः जागाद्ध । जागाध्मि जागाध्वः जागाध्मः । जागाधांचकार । जागाधिता । जागाधिष्यति । जागाधीतु, जागाधु, जागाद्धात् जागाद्धाम् जागाधतु । जागाद्धि, जागाद्धात् जागाद्धम् जागाद्ध । जागाधानि जागाधाव जागाधाम । लङि अजागाधीत् , अजाघात् अजागाद्धाम् अजागाधुः । सिपि ईटपक्षे अजागाधीरिति सिद्धवत्कृत्य ईडभावपक्षे श्राह सिपीति । अजागाध् स् इति स्थिते भष्भावे जश्त्वे 'दश्च' इति दस्य रुत्वपक्षे हल्ब्यादिलोपे रेफस्य विसर्गे अजाघाः इति रूपमित्यर्थः। पक्षे अजाघाद् इति बोध्यम् । अजागाद्धाम् इत्यादि । जागाध्यात् । लुङि 'अस्तिसिच:-' इति नित्यमीट, अजागाधीत् अजागाधिष्टाम् इत्यादि । नाथ इति । उदाहरणसूचनम् । वर्गद्वितीयान्तोऽयं धातुः, न झषन्तः । तस्य ईट्पक्षे नानायीति इति सिद्धवत्कृत्य ईडभावपक्षे आह नानात्तीति । नानाथ् ति इति स्थिते 'खरि च' इति यस्य चत्वम् । 'भषस्तथो:-' इति 'एकाचो बशो भष्-' इति च न, अमषन्तत्वात् । नानात्तः नानाथति । नानाथीषि, नानात्सि नानात्य: नानात्थ । नानार्थीमि, नानाध्मि नानाथ्वः नानाथ्मः । लोटि नानाथीतु, नानात्तु । हेधिः, यस्य जश्त्वेन दः, नानाद्धि । नानाथानि नानाथाव नानाथाम । लङि अनानाथीत् , अनानात् अनानात्ताम् अनानाथुः इत्यादि । लुति 'अस्तिसिच:-' इति नित्यमीट, अनानाथीत् अनानाथिष्टाम् इत्यादि । दधेति । उदाहरणसूचनमिदम् । दधधातोर्लटस्तिपि ईट्पक्षे दादधीतीति सिद्धवत्कृत्य इंडभावपक्षे प्राह दादद्धीति । दादध् ति इति स्थिते 'झषस्तथो:-' इति तकारस्य धः । दादधीषीति सिद्धवत्कृत्याह दाधत्सीति । 'एकाचो वश:-' इति दस्य भए । धस्य 'खरि च' इति चर्वमिति भावः । दादत्थः दादत्थ । दादमि इत्यादि । लोटि दादधीतु, दादद्ध । दादद्धि। दादधानि । लिङस्तिपि ईटि अदा. दधीत् इति सिद्धवत्कृत्य ईडभावे आह अदाधत् इति । अदादध् त् इति स्थिते हल्ड्यादिलोपे भष्भावे धस्य 'वावसाने' इति चर्वविकल्प इति भावः । सिपि ईटि अदादधीरिति सिद्धवत्कृत्य ईडभावे आह अदाधः इति । अदादध् स् इति स्थिते जश्त्वे 'दश्च' इति दस्य रुत्वे हल्ल्यादिना सलोपे रुत्वजश्त्वयोरसिद्धत्वेन झषन्तत्वाद् दरय भाषेति भावः । अदाधदिति पक्ष रूपम् । 'अस्तिसिचः-' इति नित्यमीडिति मत्वाह विष्टाम् । नाथ नार्थ याच्यादौ । नानात्तीति । ईपचे नानाथीति । दध