________________
४८० ]
सिद्धान्तकौमुदी। [ यङ्लुक्त्यतामिति वाच्यम्, 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणात्' (प१०१) 'द्विःप्रयोगो द्विवचनं पाष्ठम्' इति सिद्धान्तात् । बोभवीति, बोभोति बोभूतः बोभुवति । बोभवांचकार । बोभविता। अबोभवीत् , प्रमोभोत् बोअभूताम् प्रबोभवुः । बोभूयात् बोभूयाताम् । बोभूयास्ताम् । 'गातिस्था-' (सू २२२३) भूरूपत्वाभावात् । ततश्च यङ्लुगन्तस्याप्राप्ते गुणाभावे तत्प्राप्त्यर्थमेव बोभूत्विति निपातनमिति युक्तम् । तथा च छन्दस्येव यङ्लुगन्तस्य गुणनिषेधः, न तु भाषायामिति नियमः कथं सिध्येदित्याशङ्कय निराकरोति न च यलुकीति । प्रकतीति । 'प्रकृतिग्रहणेन यङ्लुगन्तस्यापि प्रहणम्' इति परिभाषया 'भूसुवोः-' इत्यत्र भूग्रहणेन बोभू इति यङ्लुगन्तस्यापि ग्रहणादित्यर्थः । ननु 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्' इत्यत्र किं प्रमाणमित्याशङ्कय न्यायसिद्धमिदमित्याह द्विःप्रयोग इति । षष्टाध्यायादौ 'एकाचो द्वे प्रथमस्य' इत्यत्र किमिदं द्विर्वचनम्-एकाचः प्रथमस्य एकस्य स्थाने द्वितयात्मक आदेशः स्थान्यपेक्षया अन्यो विधीयते, उत स्थानिन एकस्य सतो द्विरुच्चारणं विधीयते, न तु तत्स्थानिनः अतिरिच्यते इति संशय्य 'द्विःप्रयोगो द्विवचनम्' इति सिद्धान्तितम् । तदधिकारस्थत्वात् 'सन्योः ' इति द्विवचनमपि तथाविधमेव । ततश्च भू इत्यस्यैव बोभू इति द्विः प्रयुज्यमानतया 'भूसुवो.-' इति भूग्रहणेन ग्रहणाद्यङ्लुक्यपि निषेधसिद्धेः बोभूत्विति निपातनं छन्दस्येव यङ्लुकि गुणनिषेधः, न तु भाषायामिति नियमलाभाल्लोकेऽपि यङ्लुक सिद्ध इति भावः । बोभूत इति । अपित्त्वादीएन । डित्त्वाच्च न गुणः। बोभुवतीति । 'अदभ्यस्तात्' इत्यत् । ङित्त्वाद् गुणाभावे उवङिति भावः। बोभवीषि, बोभोषि बोभूथः बोभूथ । बोभवीमि, बोभोमि बोभूवः बोभूमः । बोभवांचकारेति । 'कास्यनेकाच्–' इत्याम् । बोभविता । बोभविष्यति। बोभवीतु, बोभोतु, बोभूतात् बोभूताम् बोभुवतु । हेरपित्त्वादीएन, डित्त्वान्न गुणः । बोभूहि, बोभूतात् बोभूतम् बोभूत । श्राटः पित्त्वेन अडित्त्वाद् गुणः। बोभवानि बोभवाव बोभवाम । लड्याह अबोभवीदित्यादि । अबोभवुरिति । 'सिजभ्यस्त-' इति जुसि गुणे अवादेशः। अबोभवीः, अबोभोः अबोभूतम् अबोभूत । अवोभवम् अबोभूव अबोभूम । बोभूयादिति । विधिलिकि आशीलिङि च रूपम् । बोभूयातामिति विपिलिस्तामि रूपम् । बोभूयुः । बोभूयाः बोभूयातम् बोभूयात । बोभूयाम् बोभूयाव बोभूयाम । बोभूयास्तामिति । श्राशीलिचि तामि रूपम् । बोभूयास्त । बोभूयासम् बोभूयास्व बोभूयास्म । लुस्तिपि सिचि कृते आह गातिद्विाप्रयोग इति । तथा च प्रकृतिग्रहणे यङ्लुगन्तस्यापि प्रहणमित्येतन्यायसिद्धं