________________
प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४८१ इति सिचो लुक्, 'यङो वा' इतीटपक्षे गुणं बाधित्वा नित्यत्वाद् वुक् , अयोभूवीत् , अबोभोत् अबाभूताम् । अभ्यस्ताश्रयो जुस् , नित्यत्वाद् युक, अबोभुवुः। अबीभविष्यदित्यादि । पास्पर्धीति, पास्पर्द्धि पास्पर्द्धः पास्पर्धति। पास्पसि । स्थेति ईट्पक्ष इति । 'इतश्च' इति इकारलोपे कृते ईडागमे 'सार्वधातुकार्धधातुकयोः' इति गुणं परमपि बाधित्वा नित्यत्वाद् ‘भुवो वुग्लुब्लिटोः' इति वुगित्यर्थः । गुणे कृते अकृते च प्रातः वुको नित्यत्वं बोध्यम् । अबोभूवीदिति । वुकि कृते सति तेन व्यवधानादूकारस्य न गुणः। ननु लुलो झर्जुसि वुकि अबोभूवुरिति रूपं वक्ष्यति । तदयुक्तम्, 'श्रातः' इति सूत्रे सिज्लुकि आदन्तादेव जुसिति नियमनादित्यत आह अभ्यस्ताश्रयो जुसिति । 'सिजभ्यस्त-' इत्यनेन अभ्यास्तात्परत्वाद् जुसित्यर्थः। 'सिजभ्यस्त-' इति सूत्रे सिचः परत्वमाश्रित्य यो जुस् प्राप्तस्तस्यैवायं नियमः, न त्वभ्यस्ताश्रयजुस इति भावः । अबोभू उस् इति स्थिते 'जुसि च' इति गुणमाशङ्कयाह नित्यत्वाद् वुगिति । 'जुसि च' इति गुणापेक्षयेत्यर्थः । अबोभूवारति । न चात्राभ्यस्ताश्रयजुर्स बाधित्वा परत्वाद् 'अदभ्यस्तात्' इत्यदादेशः स्य दिति शङ्कयम्, अभ्यस्ताश्रयजुसः श्रदादेशापवादत्वादिति भावः । अबोभूवीः, अबोभोः अबोभूतम् अबोभूत । अबोभूवम् अबोभूव अबोभूम । इत्यादीति । अबोभविष्यताम् अबोभविष्यन् इत्यादि व्यकम् । पास्पर्धीतीति । स्पर्धधातोः यङ्लुकि द्वित्वे 'शपूर्वाः खयः' इति पकारशेषे 'दीर्घोऽकितः' इति दीर्धे पास्पर्ध इत्यस्माल्लटस्तिपि शपि शपो लुकि 'यलो वा' इति ईडागमे रूपम् । ईडभावे त्वाह पास्पर्सीति । पास्पध् ति इति स्थिते 'झषस्तथोर्थोऽधः' इति नापूर्व वचनमिति भावः । बोभुवतीति । 'अदभ्यस्तात्' इत्यत् । अबोभूवीदिति । केचिदिह 'भुनो वुक्-' इति सूत्रे 'श्रोः सुपि' इत्यत ओरित्यनुवर्तते । तथा च-उवर्णान्तस्य भुवो वुगित्यर्थाद् गुणे कृते वुकः प्राप्तिर्नास्तीत्यनित्यो वुक् । स च पराभ्यां गुणवृद्धिभ्यां वाध्यते । तेन अबोभवीदिति रूपमाहुः । तच्चिन्त्यम्, भुवो वुको नित्यत्वादिति भाष्यग्रन्थविरोधात् । तस्माद् वुको नित्यत्वमाश्रित्य 'इन्धिभवतिभ्यां च' इति सूत्रं प्रत्याख्यातवतो भाष्यकृत ओरित्यनुवर्तनमसंमतमेव । आत इति नियमाज्जुसभावमाशङ्कयाह अभ्यस्ताश्रय इति । अयं भावः-'सिजभ्यस्त-' इति सूत्रेण सिचः परत्वमाश्रित्य यो जुस् प्राप्तस्तस्यैवायं नियमो न त्वभ्यस्ताश्रयस्य जुस इति । 'जुसि च' इति गुणमाशङ्कयाह नित्यत्वाद् वुगिति । अबोभूवुरिति । न चात्र परत्वाद् 'अदभ्यस्तात्' इति अदादेशः स्यादिति वाच्यम् , अभ्यस्ताश्रयजुसोऽदादेशापवादत्वात् । पास्पर्धीतीति । स्पर्ध संघर्षे । 'दीर्घोऽकितः'