________________
प्रकरणम् ५६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४७६
सार्वधातुकस्येड् वा स्यात् । 'भूसुवो:-' ( सू २२२४) इति गुणनिषेधो यङ्लुकि भाषायां न, 'बोभूतु ततिक्ले -' ( सू ३५९६ ) इति छन्दसि निपातनात् । अत एव यङ्लुग्भाषायामपि सिद्धः । न च यङ्लुक्यप्राप्त एव गुणाभावो निपाइत्यस्य 'श्तिपा शपा-' इति निषेधाविषयत्वादिति भावः । चर्करीतमिति । यड्लुगन्तमदादौ बोध्यमिति व्याख्यातं प्राक् । अतो यङ्लुगन्ताच्छपो लुगित्यर्थः । एवं च भूधातोर्यङो लुकि द्वित्वादौ बोभू इत्यस्माल्लटि तिपि शपो लुकि बोभूति इति स्थिते यङो वा । 'उतो वृद्धिः -' इत्यतो हलीति 'नाभ्यस्तस्याचि -' इत्यतः पिति सार्वधातुके इति 'बुब ईट्' इत्यत ईडिति चानुवर्तते, तदाह यङन्तादित्यादिना । टित्वात्तिप श्राद्यवयव ईट् । तथा च बोभू ई ति इति स्थिते ऊकारस्य गुणे श्रवादेशे बोभवीतीति रूपं वक्ष्यति । 'भूसुवोस्तिङि' इति गुणनिषेधमाशङ्कयाह भूसुवोरिति । निपातनादिति । 'कृषेः छन्दसि' इत्यतः छन्दसीत्यनुवृत्तौ 'दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिक्ले -' इत्यादिसूत्रे धातोर्यङ्लुगन्तस्य गुणाभावो निपात्यते । 'भूसुवो:-' इत्येव तत्र गुणनिषेध सिद्धे गुणाभावनिपातनं नियमार्थम्, यङ्लुकि छन्दस्येवायम् 'भूसुवो:-' इति गुणनिषेधो नान्यत्र इति । अतो लोकेऽपि यङ्लुगस्तीति विज्ञायते । एतेन 'यङोचि च' इति यङ्लुग्विधौ 'बहुलं छन्दसि' इति पूर्वसूत्राच्छन्दसीत्यनुवर्तयन्तः परास्ताः, तदाह अत एव यङ्लुग् भाषायामपि सिद्ध इति । 'भूसुवोस्तिङि' इति सूत्रभाष्ये तु बोभूत्वित्येतन्नियमार्थम् । अत्रैव यङ्लुगन्तस्य गुणो न भवति, नान्यत्र । क्व मा भूद् बोभवीतीत्युक्तम् । अत्रैवेत्यस्य बोभूत्विति लोय्येवेत्यर्थः । यङ्लुगन्तस्येत्यस्य भूधातोरिति शेषः । बोभवीतीत्येवोदाहतत्वादिति शब्देन्दुशेखरे प्रपञ्चितम् । वस्तुतस्तु भाष्ये यङ्लुगन्तस्येति सामान्याभिप्रायमेव, भूधातुमात्रसंकोचे मानाभावात् । बोभवीति इत्युदाहरणं तु धात्वन्तराणामपि प्रदर्शनपरमिति मूलकृदाशयः । ननु भूधातोर्यङ्लुकि बोभू इत्यस्य 'भूसुवोस्तिङि' इति गुणनिषेधप्रसक्तिर्नास्ति, द्वित्वे सति यङ्लुगन्तस्य प्रकृत्यन्तरत्वेन
एतेन यङन्ताद्धलादिपित्सार्वधातुकं न संभवतीति यङ्शब्देन यङ्लुगन्तं लक्ष्यत इति व्याख्यानं परास्तम् । उक्तरीत्या यङन्तत्वानपायात् । किं च यङन्ताद् हलादिपिन्न संभवतीति यङ्शब्देन यङ्लुगन्ते लक्षितेऽपि 'सन्यङोः' इति द्वित्वस्य यङन्ते चरितार्थतया यङ्लुगन्तलक्षणायां बीजाभावाद्यङ्लुकि द्वित्वाभावप्रसङ्गादिति दिक् । छन्दसि निपातनादिति । गुणनिषेधे सिद्धे निपातनमिदं छन्दस्येव गुणनिषेधो नान्यत्रेति नियमार्यमित्यर्थः । बोभूत्विति । समुदायस्यातिरिक्तत्वाद् 'भूसुवो:-' इति गुणनिषेधो न प्राप्नोतीति निपातनमिदं न नियमार्थमित्याशङ्कायामाह न चेति,