________________
४७८] सिद्धान्तकौमुदी। [यङ्लुक्'अस्वसन्तस्य-' (सू ४२५) इति दी| न । येऽपि स्पर्धशीडादयोऽ. नुदात्तहितस्तेभ्योऽपि न, 'अनुदात्तङितः-' (स २१५७ ) इत्यनुबन्धनिर्दे शात्, तत्र च 'श्तिपा शपा-' (१३२) इति निषेधात् । अत एव श्यन्ना. दयो न, गणेन निर्देशात् । किं तु शबेव । 'चर्करीतं च' इत्यदादौ पाठाग्छपो लुक् । २६५१ यङो वा । (७-३-६४) यहन्तास्परस्य हलादेः पितः स्कारेण प्रत्ययाश्रयकार्ये प्रत्ययलक्षणाश्रयणादेवेत्यर्थः । दीर्घोनेति । सु शोभनाः दृषदो यस्य स सुदृषत्प्रासाद इत्यत्र समासावयवत्वाल्लुप्तं जसं प्रत्ययलक्षणेनाश्रित्य प्राप्तः असन्तत्वलक्षणो दीर्घो न भवति । उणादीनामव्युत्पत्तिपक्षे व्युत्पत्तिपक्षे च अस्त्वस्य वेधा इत्यादावप्रत्यये प्रत्यये च सत्त्वेन पत्ययमात्रवृत्तित्वाभावेन तत्पुरस्कोरण दीर्घ क्रियमाणे प्रत्ययलक्षणासंभवादिति भावः । एतत्सर्वं प्रत्ययलक्षणसूत्रभाष्यकैयटादिषु स्पष्टम् । न च सुदृषत्प्रासाद इत्यत्र जसो लुका लुप्तत्वाद् 'न लुमता-' इति निषेधादेव दीर्घो न भविष्यतीति वाच्यम् , दीर्घस्यासन्तकार्यत्वेन जसि परे श्रङ्गकार्यत्वाभावादित्यलम् । ननु उक्तरीत्या प्रत्ययलक्षणाभावाद् लुप्तयन्ताद् ङित्त्वप्रयुक्तमात्मनेपदं मास्तु । ये तावत् स्पर्धादयः अनुदात्तेतः, ये च शीडादयो ङितः पठिताः, तेभ्य आत्मनेपदं दुर्वारमित्यत आह येऽपीति । तेभ्योऽपि नेति । तेभ्यो यङ्लुकि नात्मनेपदमित्यर्थः । कुत इत्यत आह अनुदात्तङित इत्यनुबन्धनिर्देशादिति । नन्वनुबन्धनिर्देशेऽपि यङ्लुकि श्रात्मनेपदं कुतो न स्यादित्यत आह तत्र च शितपेति । न चानुबन्धनिर्देशादेव उित्त्वप्रयुक्तमपि कार्यमात्मनेपदं यङ्लुकि न भविष्यति । अतः प्रत्ययासाधारणधर्माश्रयत्वे सत्येव प्रत्ययलक्षणमिति क्लेशानुभवो वृथेति वाच्यम्, यडो उकारस्य प्रत्ययानुबन्धत्वेन यङन्तस्य धातोरनुबन्धेनानिर्देशादित्यलम् । अत एवेति । 'श्तिपा शपा-' इति निषेधादेव यङ्लुकि श्यन्नादयो विकरणा नेत्यर्थः । 'स्तिपा शपा-' इति निषेधमुपपादयति गणेन निर्देशादिति । 'दिवादिभ्यः श्यन्' 'रुधादिभ्यः श्नम्' इत्यादिगणनिर्देशादित्यर्थः । किंतु शबेवेति । 'कर्तरि शप्' शोभना दृषदोऽस्मिन्निति बहुव्रीहौ वृषच्छब्दो जसन्तः । दीर्घो नेति । असिति प्रत्ययोऽप्रत्ययश्चास्तीति प्रत्ययस्यासाधारणरूपानाश्रयणात्प्रत्ययलक्षणेनासन्तत्वाभावादिति भावः । तेभ्योऽपीति । ये त्वनुदात्तेतः प्रत्ययलक्षणं विनैव वितश्च तेभ्योऽ. पीत्यर्थः । अदादौ पाठादिति । तथा च 'अदिप्रमृतिभ्यः शपः' इत्यनेन यङ्. लुगन्तात्परस्य शपो लुगित्यर्थः । यङो वा । 'नाभ्यस्तस्याचि-' इति सूत्रात्पिति सार्वधातुक इति 'उतो वृद्धिः-' इत्यतो हनीति चानुवर्तते 'ब्रुव ईद' इत्यत ईडिति च, तदेतदाह यङन्तादित्यादि । यो लुक्यपि प्रत्ययलक्षणेनात्र यान्तत्वम् ।