________________
प्रकरणम् ५६] बालमनोरमा-तत्त्वबोधिनीसहिता। [४७७ 'शेषाकर्तरि-' (सू २१५६) इति परस्मैपदम् । 'अनुदात्तहित:-' (स २१५७) इति तु न । डिवस्य प्रत्ययाप्रत्ययसाधारणस्वेन प्रत्ययलक्षणाप्रवृत्तेः। यत्र हि 'प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्' । अत एव सुहषत्प्रासाद इत्यत्र इति निषेधादिति वाच्यम् , 'गुणो यङ्लुकोः' इत्याद्यभ्यासकार्यविधिबलेन द्वित्वनिषेधाभावज्ञापनादिति भावः । अभ्यासकार्यमिति । गुणादीति भावः । धातुत्वादिति । यो लुकि सत्यपि प्रत्ययलक्षणमाश्रित्य यङन्तत्वात् 'सनाद्यन्ता:-' इति धातुत्वम् । न च 'न लुमता-' इति निषेधः शङ्कयः, धातुसंज्ञाया यन्तधर्मत्वेन यडि परतोऽजकार्यत्वाभावादिति भावः । यङो ङित्त्वात्तदन्तादात्मनेपदमाशङ्कयाह शेषादिति । ननु 'शेषात्कर्तरि-' इत्यत्र आत्मनेपदनिमित्तहीनो धातुः शेषः। यङन्तधातुस्तु न तथा, आत्मनेपदनिमित्तलकारानुबन्धसत्त्वादित्यत आह अनुदात्तडित इति तु नेति । कुत इत्यत आह डिवस्येति । तदेवोपपादयति यत्र हीति । यत्र प्रत्यये लुप्तेपि प्रत्ययमात्रवृत्तिधर्मपुरस्कारेण तमाश्रित्य कार्यप्रवृत्तिरिष्यते तत्रैव प्रत्ययलक्षणम् । यथा राजेत्यत्र । तत्र हि लुप्तं सुप्प्रत्ययं सुप्वात्मकप्रत्ययमात्रवृत्तिधर्मपुरस्कारेणाश्रित्य सुबन्ततया पदत्वाद् 'नलोपः-' इति नकारलोपप्रवृत्तिः। ठित्त्वं तु न प्रत्ययमात्रधर्मः, 'ऋतेरीयङ्' इत्यादिप्रत्ययेष्वप्रत्ययेष्वपि चित्रादिषु सत्त्वात् । ततश्च यङि लुप्ते सति प्रत्ययलक्षणेन तमाश्रित्य तवृत्तिडित्त्वप्रयुक्त कार्यमात्मनेपदं न शङ्कितुं शक्यमिति भावः । ननु यत्किञ्चिद्धर्मपुरस्कारेण प्रत्ययाश्रयकार्ये प्रत्ययलक्षणं कुतो नेत्यत आह अत एवेति । प्रत्ययमात्रवृत्तिधर्मपुरत्वेन प्रत्ययलक्षणाप्रवृत्तेर्द्वित्वं न स्यादिति भावः । न चानाधिकारविहितकार्यस्येव 'न लुमता-' इति निषेधाद् द्वित्वमत्र स्यादेवेति सप्तमीपक्षोऽपि निर्दुष्ट इति वाच्यम् , 'न लुमता-' इत्यत्राङ्गाधिकारो न गृह्यते किं तु श्राङ्गमनाङ्गं वा प्रत्यये परतः पूर्वस्य विधीयमानं सर्वमिति सिद्धान्तात् । अन्यथा राजपुरुष इत्यादौ नलोपो न स्यात्, त्वदुक्तरीत्या प्रत्ययलक्षणप्रवृत्तौ भत्वेन पदत्वबाधात् । यद्यपि 'एकाचः-' इति विधीयमानं द्वित्वं 'श्तिपाशपा-' इत्यादिना निषिध्यते तथापि तत्स्यादेव । गुणो यङ्लुकोः', 'रुप्रिकी च लुकि' इत्याद्यभ्यासकार्यविधिभित्विानिषेधस्य ज्ञापनात् । प्रत्ययाप्रत्ययेति । प्रत्यये ङित्त्वं दृश्यते 'ऋतेरीयङ्' इत्यादिषु, अप्रत्ययेऽपि दृश्यते चित्रडादिषु । एवं च यो लुकि प्रत्ययलक्षणेन याश्रितङित्त्वप्रयुक्तकार्यमात्मनेपदमत्र न शङ्कयमिति भावः । डित इत्यनुबन्धनिर्देशादिति परिहारस्त्वत्र नोक्तः, शीङादीनामिव भू इत्यादिधातूनामतुबन्धेनानिर्दिष्टत्वाद् । यो उकारस्य प्रत्ययानुबन्धत्वेन समुदायाननुबन्धत्वाद् यन्तोऽपि धातुरनुबन्धेनानिर्दिष्ट इति बोध्यम् । सुदृषदिति ।