________________
४७६ ] सिद्धान्तकौमुदी। [ यलुक्
अथ तिङन्ते यङ्लुक्प्रकरणम् ॥ ५६ ॥
२६५० यङोऽचि च । (२-४-७४) यको प्रत्यये लुक् स्यात् , चकारात्तं विनापि बहुलं लुक्स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादी भवति । ततः प्रत्ययलक्षणेन यहन्तस्वाद् द्वित्वम् । अभ्यासकार्यम् । धातुस्वाल्लडादयः ।
अथ यङलुकप्रक्रिया निरूप्यन्ते । यङोऽचि च । अचि इति प्रत्ययग्रहणम्, न तु प्रत्याहारः, यङा साहचर्यात् । ‘ण्य क्षत्रियार्ष-' इत्यतो लुगित्यनुवर्तते, तदाह यडोऽप्रत्यये लुगिति । चकारात्तं विनापीति । अच्प्रत्ययाभावेऽपीत्यर्थः । बहुलमिति । चकाराद् 'बहुलं छन्दसि' इति पूर्वसूत्राद्बहुलग्रहणमप्यनुकृष्यते इति भावः । एवं च अच्प्रत्यये तदभावेऽपि यो बहुलं लुगिति फलितम् । तेन लूजो यङन्तादचि यङो लुगभावपक्षे अतो लोपे लोलूय इति रूपम् । लुकि तु लोलुव इति रूपं सिध्यति । तथा अच्प्रत्ययाभावेऽपि बोभूयते बोभवीति इत्यादौ यो लुग्विकल्पः सिध्यतीति बोध्यम् । अनैमित्तिकोऽयमिति । अच्प्रत्ययादन्यत्र बोभवीतीत्यादौ यङ्लुग् अनैमित्तिकः । ततश्च परस्मादपि द्वित्वादिकार्यात्प्रागेव अन्तरङ्गत्वाद्यडो लुग भवति, ततो द्वित्वादीति वस्तुतः स्थितिकथन. मिदम् । अच्प्रत्यये विधीयमानस्तु यङ्लुग नैमित्तिकत्वाद्वहिरङ्ग एव । ततश्च परत्वानित्यत्वाच्च आदौ द्वित्वे कृते यङो लुकि अच्प्रत्ययमाश्रित्य प्राप्तो गुणः 'न धातुलोप आर्धधातुके' इति निषेधान्न भवति, अच्प्रत्ययस्य यङ्लोपनिमित्तत्वादिति बोध्यम् । नन्वेवं सति यङ्लुकि 'सन्यडोः' इति द्वित्वं न स्यात् । यङो लुका लुप्तत्वेन प्रत्ययलक्षणाभावादित्यत आह तत इति । यलो लुगनन्तरमित्यर्थः । 'न लुमता-' इत्यनेन हि लुमता शब्देन लुप्ते तनिमित्तमङ्गकार्य निषिध्यते । द्वित्वादिकं तु यङन्तस्य कार्यम्, न तु यनिमित्तकम् , यडि परतस्तद्विध्यभावादिति भावः। द्वित्वमिति । न च 'एकाचः-' विधीयमानं द्वित्वं कथमिह यङ्लुकि स्यात् , 'श्तिपा शपा-'
योऽचि च । यङा साहचर्यादचीति प्रत्ययो गृह्यते नतु प्रत्याहारः । 'ण्यक्षत्रियार्ष-' इत्यतोऽत्र लुगनुवर्तते, तदाह अच्प्रत्यये लुक् स्यादिति । चकारेण 'बहुलं छन्दसि' इत्यतो बहुलमित्यनुकृष्यत इत्याह बहुलं लुक् स्यादिति। केचित्तु छन्दसीत्यनुकर्षन्ति, तेषामपि मते क्वचिद्भाषायो यङ्लुग्भवत्येव । 'भूसुवोः-' इति गुणनिषेधे सिद्धे बोभूत्विति छन्दसि निपातनाज्ज्ञापकात् । एतच्च मूले एव स्फुटीभविष्यति । अनैमित्तिकोऽयमिति। अच्प्रत्यये विधीयमानो यङ्लुक् तु तनिमित्त एव । तेन लोलुवः पोपुव इत्यादौ 'न धातुलोप-' इति निषेधः सिध्यति । यङन्तत्वादिति । 'सन्योः ' इति षष्ठी, न तु सप्तमी। अन्यथा यडो लुका लुप्त