________________
प्रकरणम् ५५ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४७५
२६४६ न वशः । (६-१-२०) वावश्यते । २६४७ चायः की । ( ६-१-२१) चेकीयते । २६४८ ई घ्राध्मोः । ( ७-४-३१ ) जेधीयते । देमीयते । २६४६ अयङ् यि क्ङिति । ( ७-४-२२ ) शीङोऽयङादेशः स्याद्यादौ क्ङिति परे । शाशय्यते । श्रभ्यासस्य ह्रस्वः । ततो गुणः । डोढौक्यते । तोत्रौक्यते । ॥ इति तिङन्ते यप्रकरणम् ॥
1
संप्रसारणे पूर्वरूपे द्वित्वादि । अषोपदेशत्वान्न षः । वेवीयते इति । व्येञो यङि यकारस्य संप्रसारणे पूर्वरूपे द्वित्वादि । 'हलः' इति वा 'प्रकृत्स्राव धातुकयोः -' इति वा दीर्घः । अथ वशधातोर्यङि वावश्यते इत्यत्र 'प्रहिज्या -' इति संप्रसारणे प्राप्ते तन्निषेधं स्मारयति न वशः । वशधातोः छान्दसत्वं प्रायिकमिति प्रागेवोक्तम् । चायः की । यङीति शेषः । 'स्वपिस्यमिव्येनां यङि' इत्यतस्तदनुवृत्तेरिति भावः । चेकीयते इति । 'चायृ पूजानिशामनयो:' । अस्माद्यदि प्रकृतेः कीभावे द्वित्वादि । ई घ्राध्मोः । घ्राध्मा अनयोः द्वन्द्वात् षष्ठीद्विवचनम् । यङीति शेषः, 'यदि च' इत्यतस्तदनुवृत्तेः । जेघ्रीयते । देध्मीयते इति । ईत्त्वे कृते द्वित्वादि । हखस्य इकारस्य विधावपि 'अकृत्सार्वधातुकयोः -' इति दीर्घसिद्धेः दीर्घोच्चारणम् 'अस्य 'eat' इत्युत्तरार्थम् । अयङ यि क्ङिति । यि इति सप्तमी । क् ङ् एतौ इतौ यस्येति विग्रहः । शीङ इति । 'शीङः सार्वधातुके गुणः' इत्यतस्तदनुवृत्तेरिति भावः । अयङि ङकार इत् यकारादकार उच्चारणार्थः, ङित्त्वादन्तादेशः । शाशय्यते इति । शी य इति स्थिते ईकारस्य अय्, ततो द्वित्वे अभ्यासदीर्घः । दौधातोर्य विशेषमाह अभ्यासस्य ह्रस्व इति । द्वित्वे अभ्यासहस्वे उकारे तस्य ‘गुणो यङ्लुकोः' इति गुण इत्यर्थः । तोत्रौक्यते इति । त्रौके रूपम् । इति श्रीवासुदेव दीक्षित विदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां यङन्तनिरूपणं समाप्तम् ।
I
भावपक्षे एकाच्त्वाद्यङ् । स्वपिस्यमि । यहि किम्, स्वप्नक् । सेसिम्यते इति । स्यमु शब्दे दन्त्याजन्तसादित्वाभावेनाषोपदेशत्वान्न षः । वेवीयते इति । 'हलः' इति 'अकृत्सार्व -' इति वा दीर्घः । चायः की । यङि परे चायः की स्यात् । दीर्घोच्चारणं यङ्लुगर्थम् । अत एव 'न लुमता-' इति निषेधोऽपि न प्रवर्तत इति यङ्लुक्यपि चायः की स्यादेव । चेकीतः । ई घ्राध्मोः । दीर्घोचारणं प्राग्यत् । जेघ्रीतः । 'अस्य च्वौ' इत्याद्यर्थं दीर्घप्रहणमिति तु सुवचम् । शाशय्यते इति । परत्वादन्तरङ्गत्वाच्चावङादेशे कृते द्वित्वम् ।
इति तत्त्वबोधिन्यां यङन्त प्रक्रिया प्रकरणम् ।