________________
४७४ ] सिद्धान्तकौमुदी।
[ यङ्जङ्घन्यते । २६४४ रीगृदुपधस्य च । (७-४-६०) ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्ययङ्लुकोः । वरीवृत्यते । चुघ्नादित्वान गः । नरीनृत्यते । जरीगृह्यते । उभयत्र लस्वम्, चलीक्लुप्यते । 'रीगृस्वत इति वक्रग्यम्' (वा ४४६२ ) । परीपृच्छयते । वरीवृश्यते। २६४५ वापिस्यमिव्येजां याङि । (६-१-१६) संप्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते । वा हिनस्तीत्यर्थः । अत्र यङीति विषयसप्तमी। यडि विवक्षिते सतीति लभ्यते। तेन द्वित्वस्य परत्वेऽपि प्रागेव नीभाव इति बोध्यम् । जङ्घन्यते इति । गर्हितं गच्छतीत्यर्थः । रीगृदुपधस्य च। अभ्यासस्येति । 'अत्र लोपः-' इत्यतः तदनुवृत्तेरिति भावः। यङ्लुकोरिति । 'गुणो यङ्लुकोः' इ यतस्तदनुवृत्तेरिति भावः । वरीवृत्यते इति । 'वृतु वर्तने' अस्माद्यङि द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासस्य रीक् । नृतेयङि नरीनृत्यते इत्यत्र णत्वमाशङ्कयाह तुभ्नादित्वान्न ण इति । जरीगृह्यते इति । 'ग्रह उपदाने' अस्माद्यङि 'पहिज्य -' इति संप्रसारणे द्वित्वे उरदत्त्वे हलादिशेष अभ्यासस्य रीक् । उभयत्रेति । कृपधातोः यङि द्वित्वे उरदत्वे रपरत्वे हलादिशेषे रीक् चरीकृप्यते इत्यत्र 'कृपो रो लः' इत्यभ्यासे रेफस्य लकारः, उत्तरखण्डे ऋकारस्यावयवो यो रेफः तस्य लकारसश इत्यर्थः । ननु वश्वधातोर्यङि वरीवृश्च्यते इत्यत्र कथमभ्यासस्य रीक् । धातोः शारोपधत्वेन ऋदुपधत्वाभावादित्यत आह रीगृत्वत इति । 'रीगृदुपधस्य-' इत्यत्र ऋदुपधस्येत्यपनीय ऋत्वत इति वक्तव्यमित्यर्थः । ऋत् अस्यास्तीति ऋत्वत् । 'तसौ मत्वर्थे' इति भत्वात् पदत्वाभावान जश्त्वम् । परीपृच्छयते इति । प्रच्छधातोर्यडि 'अहिज्या-' इति रेफस्य संप्रसारणमृकारः । पूर्वरूपं द्वित्वं रपरत्वं हलादिशेषः रीक् । वरीवृ. श्च्यते इति । व्रश्वधातोर्यङि संप्रसारणे द्वित्वादि पूर्ववत् । स्वपिस्यमि । संप्रसारणं स्यादिति शेषपूरणम् । 'ध्यङः संप्रसारणम्' इत्यतस्तदनुवृत्तेरिति भावः । सोषुप्यते इति । स्वपधातोर्यडि वकारस्य संप्रसारणे उकारे पूर्वरूपे द्वित्वे अभ्यासगुणः । उत्तरखण्डे सस्य षत्वम् । सेसिम्यते इति । स्यमुधातोर्यङि यकारस्य यत इति सिध्यति, तथापि प्रक्रियालाघवाय नी इत्युक्तमिति मनोरमा। अन्ये तु 'सेर्हिः' 'मेनिः' इति इकारोचारणसामर्थ्याद्यथा 'एरुः' इत्युत्वं न भवति तथा हीभावे हि कृते 'अभ्यासाच्च' इति कुत्वं न स्यादित्याशयेन नीभावः कृत इत्याहुः । अत्र च दिग्यादेशेनेव नीभावेन द्वित्वं न बाध्यते पुनःप्रसजविज्ञानादिति केचित् । वस्तुतस्तु यङन्तावयवस्य द्वितीयाजवधिकस्य द्वित्वं नीभावस्तु प्रकृतिमात्रस्येति विषयभेदाद् द्वित्वं निधिमेव । रीगृदुपधस्य च । ऋदिति किम् , कीर्त्यते । णिज