________________
प्रकरणम् ५५ ]
बालमनोरमा-तत्वबोधिनीसहिता । [ ४७३
नीग्वञ्चुखं
सुध्वंसुभ्रंसुकसपतपदस्कन्दाम् । ( ७-४-८४ ) एषामभ्यासस्य नीगागमः स्याद्यङ्लुकोः । श्रकित इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि । २६४३ नुगतोऽनुनासिकान्तस्य । ( ७-४-८५ ) अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् । नुका अनुस्वारो लच्यते इत्युक्तम् । यँय्यम्यते, यंयम्यते । तपरस्वसामर्थ्याद् भूतपूर्वदीर्घस्यापि न । भाम क्रोधे, बाभाम्यते । 'ये विभाषा' ( सू २३१६ ) जाजायते, जञ्जन्यते । 'हन्तेहिंसायां यङि घ्नीभावो वाच्यः, ( वा ४६२१ ) । जेघ्नीयते । हिंसायां किम्
1
शविकरणस्य न ग्रहणप्रसक्तिरिति शङ्कयम्, तुदादौ 'कुड् शब्दे' इति हस्वान्तपाठस्य न्यायसंमतत्वात् । वस्तुतस्तु न्यायसंमते तौदादिकेऽस्याप्रवृत्तिरेव फलम् । 'लुग्विकरणालुग्विकरणयोर लुग्विकरणस्यैव ग्रहणम्' इति लुग्विकरणस्य ग्रहणनिवृत्तिरिति बोध्यम् । नीग्वञ्चु । अभ्यासस्येति । 'अत्र लोपः -' इत्यतस्तदनुवृत्तेरिति भावः । यङ्लुकोरिति । यङि यङ्लुकि चेत्यर्थः । न दीर्घ इति । नीगागमात् प्राक् प्राप्तोऽभ्यासदीर्घो नेत्यर्थः । भविष्यदपि कित्त्वं दीर्घ प्रतिबन्धकमिति भावः । नलोप इति । 'अनिदिताम् -' इत्यनेन नकारस्य लोप इत्यर्थः । इत्यादीति । सनीस्रस्यते, दनीध्वस्यते, बनीभ्रस्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्कद्यते । नुगतोऽनु । अङ्गस्येत्यधिकृतम् । 'अत्र लोपः -' इत्यतः अभ्यासस्येत्यनुवर्तते । 'गुणो यङ्लुको:' इत्यतो यङ्लुकोरिति च तदाह अनुनासिकान्तस्येत्यादि । ननु यंयम्यते इत्यत्र नुको नकारस्य अपदान्तत्वादकल्परकत्वाच्च कथं 'नश्च' इत्यनुखार इत्यत आह नुकेति । नन्वभ्यासे हस्खविधानाद्दीर्घस्याभावाद् नुग्विधावत इति तपरकरणं व्यर्थमित्यत आह तपरत्वसामर्थ्यादिति । स्वाभाविक एव यो ह्रस्वोऽकारः, तस्यैव प्रहणम् नतु दीर्घादेशभूतस्य हखाकारस्ये • त्येतदर्थं तपरकरणमिति भावः । बाभाम्यते इति । अत्र प्रकार स्थानिकस्य ह्रस्वविधिसंपन्नस्य अकारस्य न नुगिति भावः । जनधातोर्यङि नकारस्य आत्त्वविकल्पं स्मारयति ये विभाषेति । घ्नीभाव इति । यद्यपीह ही भावविधावपि 'अभ्या साच्च' इति कुत्वे हकारस्य घकारः सिध्यति, तथापि प्रयत्नलाघवाभावात् प्रक्रियालाघवाच्च नीति घकारोच्चारणमिति भावः । जेधरियते इति । पुनः पुनरतिशयेन
निर्देशः कर्तव्यः । कृते च तस्मिन्कुवतिमपि व्यावर्तयतीत्यत्र तात्पर्यमिति कुछ इत्येवात्र सुवचम् । इत्यादीति । दनीध्वस्यते । बनीभ्रस्यते । चनीकस्यते । पनीपत्यते । पनीपद्यते । चनीस्कद्यते । एवं वनीववीति । सनीस्रंसीति । दनीध्वंसीतीत्यादि यङ्लुक्युदाहर्तव्यम् । नीभाव इति । होभावे कृतेऽपि 'अभ्यासाच्च' इति कुत्वेन जेनी