________________
[ यङ्
४७२]
सिद्धान्तकौमुदी। न स्याथङि । निसेसिव्यते । २६४१ न कवतेर्यङि । (-४-६३) कवते. रभ्यासस्य चुस्वं न स्यापछि । कोकूयते । कौतिकुवस्योस्तु चोकूयते । २६४२ 'सहेः साडः सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते । पूर्धन्यः' इत्यधिकृतम् 'न रपरसृपि-' इत्यतो नेत्यनुवर्तते, तदाह सिच इति। निसेसिच्यते । इति । 'उपसर्गात्सुनोति-' इति 'स्थादिष्वभ्यासेन-' इति च पत्वमनेन निषिध्यते । न कवतेयडि । 'अत्र लोपः-' इत्यतः अभ्यासस्येति 'कुहोश्चुः' इत्यतः चुरिति चानुवर्तते इति मत्वाह कवतेरभ्यासस्येति । ननु कोर्यङि इत्येव सिद्ध श्तिपा निर्देशो व्यर्थ इत्यत आह कौतिकुवत्योस्त्विति । शा निर्देशार्थ कवतिग्रहणम् । तेन 'कु शब्दे' इति लुग्विकरणस्य 'कुङ् शब्दे' इति शविकरणस्य च ग्रहणं न लभ्यत इति भावः । न च कोरित्युक्तेऽपि दीर्घान्तस्थ परत्वात्सुटि कृते संयोगादित्वेन रीप्रवृत्तः प्राग् गुणः स्यादिति वाच्यम् , अड. भ्यासव्यवायेऽपीत्यस्यारम्भे अडभ्यासयोः कृतयोरेव सुड् न तु ततः प्रागिति सिद्धान्तात् । एतेन सुटो बहिरङ्गत्वान संयोगादित्वेन गुण इति केषांवित्समाधानं परास्तम् । अभ्यासात्परस्य सुटि कृते साभ्यासस्याङ्गस्य संयोगादित्वमृदन्त वं च नास्तीति गुणप्राप्तेरभावात् । ननु 'अडभ्यासव्यवायेऽपि सुट् कात्पूर्वः' इति वार्तिकप्रत्याख्यानाय 'पूर्व धातुरुपसर्गेण युज्यते' इति पक्षं खीकृत्य भाष्यकृता संचस्करतुरित्यादावन्तरगत्वात्सुटि ससुटकस्यैव द्वित्वाभ्युपगमात् संचेस्क्रियते इति न सिध्येत् । तत्र हि सुटि कृते रीळं बाधित्वा परत्वाद् 'यकि च' इति गुण संचस्कर्यत इत्यनिष्टरूपप्रसमात् । यदि तु इष्टानुरोधेन पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेणेति मताश्रयणेन रोगदेशं द्वित्वं च कृत्वा पश्चात्सुटि इष्टं रूपं सिध्यतीत्युच्यते, तर्हि 'अडभ्यासव्यवायेऽपि' इति वचनं खीकर्तव्यमेव स्यादिति चेत् । अत्राहुः- अडभ्यासेत्यादिवार्तिकं विनापि संचस्करतुरित्यादिरूपसिद्धये भाष्यकृता 'पूर्व धातुरुपसर्गेण युज्यते' इति पक्ष आश्रितः। संचस्क्रीयते समचेस्क्रियत इत्यादिसिद्धिस्तु वार्तिकायतैवेति । सिचो यडि । अभ्याससकारस्य 'उपसर्गात्सुनोति-' इति, ततः परस्य तु 'स्थादि. ध्वभ्यासेन च-' इति षत्वे प्राप्ते निषेधोऽयम् । यहि किम्, अभिषिषिक्षति । न कवतेयङि । इह कोरित्येव वाच्ये कवतेरिति शपा निर्देशात्कु शब्द इति भ्वादि. रेव गृह्यते न तु कु शब्द इति अदादिः, कूल् शब्द इति तुदादिश्चेत्याशयेनाह कौतिकुवत्योस्त्विति । ननु कोरित्युक्तऽपि कूडः प्रसनो नास्ति दीर्घान्तत्वाल्लुग्विकरणपरिभाषया च कौतेरपि प्रसङ्गो नास्तीति चेत् । अत्राहुः-कोरित्युक्ते तु निरनुबन्धपरिभाषाया अपि जागरूकत्वादुभयोHहणं स्यादिति कौतिव्यावृत्त्यर्थ शपा