________________
प्रकरणम् ५५ ] बालमनोरमा-तत्वबोधिनीसहिता। [४७१ यङ्लुकोः । 'हलि च' (सू ३५४) इति दीर्घः। चम्चूर्यते, चंचूर्यते । पम्फुल्यते, पंफुल्यते । २६३८ जपजभदहदशभञ्जपशां च । (७-४-८६) एषामभ्यासस्य नुक् स्याघझ्यङ्लुकोः। गर्हितं जपति जाप्यते इत्यादि । २६३६ ग्रो यङि । (८-२-२०) गिरते रेफस्य बत्वं स्याद्यकि। गर्हितं गिलति जेगिल्यते । 'घुमास्था-' (सू २४६२) इतीत्वम्, गुणः, देदीयते । पेपीयते । सेषीयते । 'विभाषा श्वेः' (सू २४२०), शोशुयते । शेश्वीयते । 'यहि च' (सू २६३३), सामयते । 'रीतः' (सू १२३४), चेक्रीयते । सुट्, सञ्चस्क्रीयते । २६४० सिचो यङि । (८-३-११२) सिचः सस्य षो यङ्लुकोः' इत्यतो यङ्लुकोरिति 'चरफलो:-' इति चानुवर्तते, तदाह चरफलोरित्यादि । दीर्घ इति । उकारस्येति शेषः । चञ्चूर्यते इति । गर्हितं चरतीत्यर्थः । यङि द्वित्वे हलादिशेषे अभ्यासाकारादुपरि अनुस्वारागमे 'वा पदान्तस्य' इति तस्य परसवर्णे जकारे उत्तरखण्डे अकारस्य उत्त्वे तस्य दीर्घः । परसवर्णाभावपक्ष त्वाह चंचूर्यते इति । पम्फुल्यते इति । अत्र अनुखारस्य मकारः परसवर्णः । जपजभ । 'चरफलोच' इत्यत्र यदनुवृत्तं तत्सर्वमिहाप्यनुवर्तते, तदाहं एषामिति । इत्यादीति । जजभ्यते । दन्दह्यते । दन्दश्यते । बम्भज्यते । पम्पश्यते । पसधातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति माधवः । तालव्यान्त इति काशिका। ग्रो यङि।इत्यस्य प्र इति षष्ठ्येकवचनम् । 'कृपो रोलः' इत्यतो रो ल इत्यनुवर्तते, तदाह गिरतेरित्यादि । दा, पा, सा, एभ्यो यडि विशेषमाह घमास्थेत्यादि । शोशूयते इति । श्विधातोर्यठि 'संप्रसारणं तदाश्रयं च कार्य बलवत्' इति वचनात् संप्रसारणे पूर्वरूपे शु इत्यस्य द्वित्वम् । 'अकृत्सार्वधातुकयो:-' इति दीर्घः । सास्मयते इति । स्मृ य इति स्थिते संयोगादित्वाद् 'यङि च' इति परत्वाद्गुणे रपरत्वे द्वित्वे 'दीर्घोऽकितः' इत्यभ्यासदीर्घः । चेक्रीयते इति । कृ य इति स्थिते परत्वाद् ऋकारस्य रीडादेशे की इत्यस्य द्वित्वे अभ्यासगुणः । सुडिति । 'संपरिभ्यां करोती भूषणे' 'समवाये च' इत्यनेनेति शेषः। सिचो यङि । तृतीया साधुरेव । इत्यादीति । जंजभ्यते । दंदश्यते । दंदह्यते। बंभज्यते । पस धातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति स्पश बाधनस्पर्शनयोरित्यत्र माधवः । पंपस्यते । काशिकायां तु तालव्यान्तः क्वचिद् दृश्यते । एवं जनपीति । जाभीति। दन्दहीतीत्यादि यङ्लुकि उदाहर्तव्यम् । यो यङि । 'कृपो रो लः' इत्यतो रोल इति वर्तते. सदाह रेफस्य लत्वमिति । चेक्रीयते इति । परत्वाद्रीडि कृते द्विवचनम् । संचेस्क्रीयते इति । रीति द्वित्वे च सुट् । न च संक इत्यस्यामवस्थायां द्वित्वात्