________________
४७० ]
सिद्धान्तकौमुदी ।
[ यड्
1
अल्लोपस्य स्थानिवश्वान्नोपधागुणः, बेभिदिता । २६३४ नित्यं कौटिल्ये गतौ । ( ३-१-२३ ) गत्यर्थास्कौटिल्य एव यङ् स्याच तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते । २६३५ लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् । ( ३-१-२४ ) एम्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते । २६३६ चरफलोश्व । ( ७-४-८७ ) अनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः । नुक् इत्यनेनानुस्वारो लक्ष्यते । स च पदान्तद्वाच्यः' ( वा ४.६६१ ) 'वा पदान्तस्य' ( सू १२५ ) इति यथा स्यात् । २६३७ उत्परस्यातः । ( ७-४-८८ ) चरफलोरभ्यासास्परस्यात उत्स्याद्यड्दीर्घः । भिद्यते इति । भिद् य इति स्थिते भिद् इत्यस्य द्वित्वे हलादिशेषे अभ्यासगुणः । ननु बेभिद्य इति यङन्ताल्लुटि तासि इटि यलोपे तो लोपे बेभिदितेत्यत्र तासि परे लघूपधगुणः स्यादित्यत श्राह अल्लोपस्य स्थानिवत्त्वादिति । नित्यं कौटल्ये गतौ । नित्यशब्द एवार्थे । कौटिल्ये इत्यस्योपरि द्रष्टव्यः । 'धातोरेकाचः-' इत्यतो यवित्यनुवर्तते, तदाह गत्यर्थात्कौटिल्य एवेति । गत्यर्थवृत्तेर्धातोः कौटिल्ये द्योत्य एव यवित्यर्थः । एवशब्दव्यवच्छेद्यमाह न तु क्रियासमभिहारे इति । शब्देन्दुशेखरे तु गत्यर्थेभ्यः क्रियासमभिहारे यस्त्येवेति प्रपञ्चितम् । लुपसद् । लुप, सद, चर जप, जभ, दह, दश, गृ एषां द्वन्द्वः । यङित्यनुवर्तते । भावो धात्वर्थः, तद्गता गर्दा भावगर्हा । नित्यमित्यनुवृत्तम् एवकारार्थकम्, तदाह एभ्य इत्यादि । चरफलोश्च । 'अत्र लोपः-' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'नुगतोऽनुनासिकान्तस्य' इत्यस्माद् तो नुगिति । 'गुणो यङ्लुको:' इत्यस्माद् यङ्लुकोरिति च, तदाह श्रनयोरित्यादि । नुकि ककार इत् उकार उच्चारणार्थः । लक्ष्यते इति । ' नुगतोऽनुनासिकान्तस्य' इति पूर्वसूत्रे यंयम्यते रंरम्यते, इत्यादौ अनुस्वारश्रवणार्थं नुमित्यनुखारोपलक्षणमाश्रयणीयम् । अन्यथा झल्परत्वाभावाद् ‘नश्च-' इत्यनुखारासंभवान्नकार एव श्रूयेतेत्युक्तं भाष्ये । तस्यैवेहानुवृत्तेरत्राप्यनुखारोपलक्षणार्थत्वमिति भावः । पदान्तवदिति । ' नुगतोऽनुनासिका - न्तस्य' इति पूर्वसूत्रस्थमिदं वार्तिकमत्राप्यनुवर्तते इति भावः । उत्परस्यातः । 'अत्र लोपः-' इत्यस्मादभ्यासस्येत्यनुवृत्तं परशब्दयोगात् पञ्चम्या विपरिणम्यते । 'गुणो त्यादि सिध्यति । नित्यं कौटिल्ये । नित्यंशब्दोऽवधारणार्थक इत्याह कौटिल्य एवेति । तक्रकौण्डिन्यन्यायेनैवेष्टे सिद्धे नित्यग्रहणं तस्य न्यायस्यानित्यत्वज्ञापनार्थम् । तेन 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्लेनाबाधनात्पूजार्थेभ्यो भूते क्लः सिध्यति । ततश्च 'क्लस्य च वर्तमाने' इति षष्ठी न प्रवर्तत इति 'पूजितो यः सुरासुरैः' इति