________________
प्रकरणम् ५५ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४६६
1
स्याद्यङि यङ्लुकि च श्रटाव्यते । २६३३ यङि च । ( ७-४-३० ) अर्तेः संयोगादेश्व ऋतो गुणः स्याद्यङि यङ्लुकि च । यकारपररेफस्य न द्विस्वनिषेधः, अरार्यते इति भाष्योदाहरणात् । अरारिता । भशाशिता । ऊर्णोनूयते । बेमिद्यते । दीर्घोsकितः । श्रभ्यासस्येति । 'अत्र लोपोऽभ्यासस्य' इत्यतस्तदष्टत्तेरिति भावः । यङि यङ्लुकि चेति । 'गुणो यङलुको:' इत्यतस्तदनुवृत्तेरिति भावः | अति इत्यस्य तु यंयम्यते इत्यादौ प्रयोजनं वक्ष्यते । ऋधातोर्यङि कृते ङित्त्वाद्गणनिषेधे प्राप्ते यङि च । 'गुणोऽर्तिसंयोगाद्यो:' इति सूत्रमनुवर्तते । ‘रीड् ऋत:' इत्यस्माद् ऋत इति च, तदाह तैरित्यादि । तथा च ऋ य इति स्थिते ऋकारस्य गुणे अकारे रपरत्वे अर्य इति स्थिते 'न न्द्राः - ' इति रेफस्य द्वित्वनिषेधे य इत्यस्य द्वित्वे 'दीर्घोऽकितः' इत्यभ्यासदीर्घे अर्यायते इति प्राप्ते आह यकारपररेकस्येति । भाष्योदाहरणादिति । 'धातोरेकाचः-' इति सूत्रे इति शेषः । अरारितेति । 'यस्य हलः' इति यकारलोपः । अशाशितेति । प्रशधातोर्यङि श्य इत्यस्य द्वित्वे हलादिशेषेण अभ्यासे यकार निवृत्तौ 'दीर्घोऽकितः' इति दीर्घे 'यस्य इलः' इति यकारलोपः । ऊर्णोनूयते इति । ऊर्णु य इति स्थिते 'नन्द्रा -' इति नु इत्यस्य द्वित्वे हलादिशेषे अभ्यासगुणे 'प्रकृत् -' इति यिता, पोपूयिता । दीर्घोऽकितः । श्रकितः किम्, यंयम्यते, रंरम्यते । ननु दीर्घश्रुत्योपस्थितेनाचा 'अत्र लोपोऽभ्यासस्य' इत्यतोऽनुवृत्तमभ्यासस्येत्येतद्विशिष्येत । ततश्चाजन्ताभ्यासस्य दीर्घो भवतीत्यर्थात् पापच्यत इत्यादावेव दीर्घो भवेन्न तु यंयम्यते जङ्घनीतीत्यादौ । तत्र हि परत्वान्नुकि कृतेऽभ्यासस्याजन्तत्वाभावाद्दीर्घस्य प्रसक्तिरेव नास्तीति किमनेनाकित इत्यनेन । न चाभ्यासावयवस्याचो दीर्घ इति वैयधिकरण्यान्वये स्वीकृतेऽकिद्ग्रहणं प्रयोजनवदिति वाच्यम्, संभवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वात् येन नाप्राप्तिन्यायेन नुको दीर्घापवादत्वस्वीकाराच्च । तस्मादकित इति व्यर्थमिति चेत् । अत्राहुः - डोढौक्यते इत्यत्राभ्या सहस्वं बाधित्वा परत्वाद् 'दीर्घोऽकितः' इति दोर्घे कृते डौढौक्यत इति स्यात् । तस्माद् अभ्यासविकारेषु उत्सर्गविधीन् बाधका न बाधन्त इति ज्ञापनायाकित इति ग्रहणं कर्तव्यमिति । तथा चोक्तज्ञापकनिर्वाहाय 'दीर्घोऽतिः' इत्यत्राभ्यासस्याच इति वैयधिकरण्यपक्षस्याश्रयणाद् यंयम्यत इत्यादौ दीर्घात्प्रागेव नुकि कृतेऽपि दीर्घः स्यात्, तद्वारणार्थमकित इत्यावश्यकमिति दिक् । अटाट्यत इति । इह व्यशब्दस्य द्वित्वम् । यङि च । इह 'गुणोऽर्तिसंयोगायोः' इत्येतत्सर्वमप्यनुवर्तते । यकारपररेफस्येति । यदि भाष्योदाहरणं सामान्यापेक्षं ज्ञापकं स्यात्तदाऽर्यमाख्यद् आरर्यदि
2