________________
४६८ ]
सिद्धान्तकौमुदी ।
[ य
इत्यत्र यङ् नेति भाष्यम् । पौनःपुन्ये तु स्यादेव । रोरुच्यते । शोशुम्यते । 'सूचि सूत्रि मूत्रयट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः' ( वा १७५१ ) । श्राद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूज्यते । अनेकाकत्वेनाषोपदेशत्वात्षस्वं न । मोमूत्रयते । २६३१ यस्य हलः । ( ६-४-४६ ) यस्य इति सङ्घातग्रहणम् । इतः परस्य यशब्दस्य लोपः स्यादार्धधातुके । 'प्रदेः परस्य' ( सू ४४ ) । 'अतो लोप:' ( सू २३०८ ) । सोसूचांचक्रे । सोसूचिता । सोसूत्रिता । मोमूत्रिता । २६३२ दीर्घोऽकितः । ( ७-४-८३ ) श्रकितोऽभ्यासस्य दीर्घः
अश
भृशत्वं हि यङ्द्योत्यम्, न तु वाच्यम् । द्योतनं च उक्तस्यापि संभवतीति भावः । यङ् नेति । श्रनभिधानादिति भाष्ये स्पष्टम् । पौनःपुन्ये त्विति । पुनपुनश्शब्दसमभिहारेऽपि यस्त्येव, भृशार्थ एवानभिधानोक्तेरिति भावः । सूचिसूत्रीति । सूचि, सूत्रि, मूत्रि, अटि, अर्ति, अशू, ऊर्णोति एषां द्वन्द्वः । 'सूच पैशुन्ये, सूत्र वेष्टने, मूत्र प्रस्रवणे' एते त्रयश्चुराद्यन्तर्गणे कथादावदन्ताः । तेषामनेकाच्त्वादप्राप्तौ यङ्वचनमित्याह आद्यास्त्रय इति । 'अट गतौ, ऋ गतौ, भोजने, शू व्याप्तौ ' एषां हलादित्वाभावाद्वचनम् । ऊर्णुत्रस्तु हलादित्वाभावादेकाच्त्वाभावाच्च वचनम् । सोसूच्यते इति । एयन्तायङि णिलोपे द्वित्वे 'गुणो यब्लुकोः' इति अभ्यासगुणः । सूचेः षोपदेशत्वभ्रमं वारयति श्रनेकाच्कत्वेनेति । षोपदेशत्वे तु 'धात्वादेः -' इति षस्य सत्वे कृते प्रदेश सकारत्वादुत्तरखण्डस्य षत्वं स्यादिति भावः । लिटि सोसूच् य श्रमिति स्थिते यस्य हलः । यकारादकार स्थ उच्चारणार्थत्वभ्रमं वारयति संघातग्रहणमिति । यकाराकारसमुदायस्येत्यर्थः । हल इति पञ्चमी । 'आर्धधातुके' इत्यधिकृतम् । 'अतो लोपः' इत्यस्मात् लोप इत्यनुवर्तते, तदाह हलः परस्येत्यादिना । ननु 'अलोऽन्त्यस्य' इति यकारादकारस्य लोपः स्यादित्यत श्राह श्रादेः परस्येति । 'अलोऽन्त्यस्य' इत्यस्यायमपवाद इति भावः । श्रतो लोप इति । यकाराकारसंघाते यकारस्य लोपे सति परिशिष्टस्याकारस्य 'अतो लोपः' इत्यर्थः । ननु मास्तु संघातग्रहणम् । यकारस्यैवात्र लोपो विधीयताम् । अतो लोपे सति इष्टसिद्धिरिति चेत्, न- ईर्ष्या धातोस्तृचि इति ईयितेत्यत्र यकारलोपनिवृत्त्यर्थत्वादित्यलम् । श्रटधातोः यदि 'श्रजादेर्द्वितीयस्य, इति व्य इत्यस्य द्वित्वे हलादिशेषेण अभ्यासे यकारनिवृत्तौ अटव्यते इति स्थिते यस्य हलः । संघातग्रहणमिति । तेन ईष्यिता हर्यीदित्यादौ यलोपो न । संधातग्रहणेन चार्थवद्ग्रहणपरिभावोपस्थित्या पुत्रकाम्येत्यादौ नातिप्रसङ्गः । वर्णप्रहणे तूक्तपरिभाषाया अनुपस्थित्या स्यादेवात्र यलोप इति भावः । हलः किम्, लोलू