________________
प्रकरणम् ५४] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६७
अथ तिङन्ते यमकरणम् ॥ ५५ ॥
२६२६ धातोरेकाचो हलादेःक्रियासमभिहारे यङ्। (३-१-२२) पौनःपुन्यं भृशार्थश्च क्रियासमभिहारः, तस्मिन् योत्ये यत् स्यात् । २६३० गुणो यङ्लुकोः। (७-४-८२) अभ्यासस्य गुणः स्याचलि यलुकि च । 'सनाधन्ता-' (सू २३०४) इति धातुस्वाबडादयः। किदन्तस्वादात्मनेपदम् । पुनःपुनरतिशयेन वा भवति बोभूयते । बोभूयोचक्रे। अबोभूयिष्ट । धातोः किम्प्रार्धधातुकरवं यथा स्यात् । तेन 'ब्रुवो वचिः' (सू २४५३ ) इत्यादि । एकाचः किम्-पुनःपुनर्जागर्ति । हलादेः किम्-भृशमीक्षते । भृशं शोभते रोचते
अथ यप्रक्रिया निरूप्यन्ते।धातोरेकाचो। तस्मिन्धोत्ये इति।वाच्यत्वे तु प्रत्ययवाच्यस्य प्रधानतया सन्नन्ते इच्छाया इव तस्य विशेष्यत्वं स्यादिति भावः । गुणो यलुकोः। यङ् च लुक्च इति द्वन्द्वात् सप्तमी। लुगिह यह एव विवक्षित उपस्थितत्वात् । 'अत्र लोपः-' इत्यतः अभ्यासस्येत्यनुवर्तते, तदाह अभ्यासस्येति । इक्परिभाषया इगन्तस्येति लभ्यते । बोभूयते इति । 'सन्योः ' इति द्वित्वम् । यो छित्त्वादूकारस्य न गुणः । बोभूय इत्यस्माल्लटि तिपि शपि पररूपम् । 'कियासमभिहारे द्वे वाच्ये' इति पुनर्द्वित्वं तु न, तस्य 'किया. समभिहारे' इति विहितलोडन्तमात्रविषयत्वात् । अत एन 'क्रियासमभिहारे लोट्' इति सूत्रभाष्ये 'क्रियासमभिहारे लोरमध्यमपुरुषेकवचनस्य द्वे वाच्ये' इत्येव पठितम् । पौन पुन्ये यडि तु 'नित्यवीप्सयोः' इति न द्वित्वम्, 'क्रियासमभिहारे द्वे' इत्यनेन पौन:पुन्येऽपि लोडन्तद्वित्वविघानन पौन पुन्यस्य अन्यतो लाभे सौत्रद्वित्वाप्रवृत्ते
पिनादित्यलम् । धातोः किमिति । "क्रियासमभिहारे' इत्यनेनैव वातोाभाकिमयं धातुग्रहणमिति प्रश्नः । आर्धधातुकत्वमिति । धातोरित्यभावे आर्धधातुक्त्वं न स्यात् । धातोरिति विहितप्रत्ययस्यैव आर्धधातुकत्वादिति भावः । ब्रव इति । यङ आर्धधातुकत्वे सत्येव तस्मिन् परे 'ब्रुवो वचिः' 'नो वयिः' इत्यादि कार्य सिध्यति । अन्यथा 'आर्धधातुके' इत्यधिकृत्य तद्विधानान्न स्यादिति भावः । भृशमीक्षते इति । न च भृशशब्देनैवात्र मृशार्थभानाद् य न भविष्यतीति वाच्यम् ,
धातोरेकाचो। क्रियासमभिहार इत्युक्त्वाद्धातोरेव स्यान तु प्रातिपदिकादिति पृच्छति धातोः किमिति । ब्रुवो वचिरित्यादीति । वावच्यते, चाख्यायत इत्यादिरूपसिद्धिः प्रयोजनमित्यर्थः । धातुप्रहणाभावे धिागेत्यव्ययादपि स्यात्तस्य कियावाचित्वादेकाच्त्वाञ्चेति तद्वारणार्थमपि धातुग्रहणमावश्यकमित्याहुः ।