________________
सिद्धान्तकौमुदी ।
,
'शेषिकान्मतुवर्थीयाच्छैषिको मतुबर्थिकः । सरूपप्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ॥ ' शैषिकाच्छैषिकः सरूपो न । तेन शालीये भव इति वाक्यमेव, न तु छान्ताच्छुः । सरूपः किम्-अहिच्छत्रे भव श्राहिच्छत्रः श्राहिच्छत्रे भव अहिच्छस्त्रीयः, अरणन्ताच्छुः । तथा मत्वर्थाप्तरूपः स न । धनवानस्यास्ति, इह मतुबन्तान्मतुब्न । विरूपस्तु स्यादेव, दण्डिमती शाला । सरूप इत्यनुषज्यते । श्रर्थद्वारा सादृश्यं तस्यार्थः । तेन इच्छासन्नन्तादिच्छासन्न । स्वार्थसन्नन्तात्तु स्यादेव, जुगुप्सिषते, मीमांसिषते । इति तिङन्ते सन्प्रकरणम् ।
४६६ ]
[ सन्
' उपसर्गात्सुनोति-' इत्यभ्यासस्य षत्वमाशङ्कयाह स्थादिष्वेवेति । शैषिकादिति । सन्विधायकसूत्रस्थमिदं वार्तिकम् । शैषिकात्सरूपः शैषिकः प्रत्ययो न । मतुबर्थीयात् सरूपो मतुबर्थिकः प्रत्ययो नेत्यन्वयः । शेषाधिकारे विहितः शैषिकः । भवार्थे अध्यात्मादित्वाट्ठञ् । मतुबर्थे भवो मतुबर्थीयः, गहादित्वाच्छः । मतुबर्थोऽस्यास्तीति मतुबर्थिकः । ‘अत इनिठनौ' इति ठन् । शालीये इति । शालायां भवः शालीयः । 'वृद्धाच्छः' । शालीये भव इत्यर्थे शालीयशब्दात् पुनश्छो नेत्यर्थः । अहिच्छत्रे भव इति । श्रहिच्छत्रशब्दो भवार्थे णन्तः । ततो भवार्थे 'वृद्धाच्छः' इति छ एव भवति, न तु पुनरणिति भावः । ननु जुगुप्सिषते इत्यादौ कथं सन्नन्तात् सन्नित्यत आह सरूप इत्यनुषज्यते इति । सन्नन्तान्न सनिष्यते इत्यत्रापि सरूप इत्यनुषज्यते इत्यर्थः । नन्वेवमपि जुगुप्सिषते इत्यत्र सरूपस्य सनः कथं प्रवृत्तिरित्यत आह अर्थद्वारेति । शब्दतो वैरूप्यस्यासंभवादर्थद्वारकमेव सारूप्यं विवक्षितमिति भावः । तेनेति । इच्छासन्नन्तादिच्छासन्नेति लभ्यते इत्यर्थः । स्वार्थेति । स्वार्थसन्नन्तात्तु इच्छासन् भवत्येवेत्यर्थः ।
I
1
इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमाख्यायां सन्नन्तनिरूपणं समाप्तम् ।
,
हेति । न चात्र नियमादेव निषेधे 'सुनोतेः स्यसनो:' इति सूत्रं सन्विषये निर्विषयं स्यादिति वाच्यम्, श्रभिसुसूषतेरप्रत्ययः श्रभिसुसूरित्यत्र षत्वनिषेधाय तस्यावश्यकत्वात् । एतच्च काशिकायां स्पष्टम् । शैषिकेति । एतच्च श्लोकवार्तिकमिति केचित् । भाष्यमिति बहवः । शेषे भवः शैषिकः, अध्यात्मादित्वाद्वन् । मतुबर्थे भवो मतुबर्थीयः, गहादित्वाच्छः । मतुबर्थोऽस्यास्तीति मतुबर्थिकः, 'श्रुत इनिठनौ' इति ठन् । इति तत्त्वबोधिन्यां सन्नन्तप्रक्रिया प्रकरणम् ।
१ क्विप् प्रत्यय इत्यर्थः ।