________________
प्रकरणम् ५४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६५ उपसर्गात्तु 'स्थादिष्वभ्यासेन च-' (सू २२७७ ) इति षत्वम् । परिषिषिक्षति । षणि किम्-तिष्ठासति । सुषुप्सति, अभ्यासादिस्युक्तर्नेह निषेधः । इणप्रतीषिषति । इक्-अधीषिषति । २६२८ सः खिदिखदिसहीनां च । (८-३-६२) अभ्यासेणः परस्य एयन्तानामेषां सस्य स एव, न षः, पति परे । सिस्वेदयिषति, सिस्वादयिषति । सिसाहयिषति । 'स्थादिग्वेवाभ्यासस्य' इति नियमानेह अभिसुसूषति । सिसिक्षतीति । सेक्तुमिच्छतीत्यर्थः । सिन्धातोः सन् 'हलन्ताच' इति कित्त्वान लघूपधगुणः । अभ्यासेणः परस्य सस्य चेत् षत्वं तर्हि स्तौतिण्योरेव इति नियमान्न ष इति भावः । ननु परिषिषिक्षतीत्यत्र अभ्यासेणः परस्य सस्य कथं षत्वम् ? 'स्तौतिण्योरेव-' इति नियमात् , 'स्थादिष्वभ्यासेन च-' इति षत्वस्याप्यनेन नियमेन निवृत्तेरित्यत आह उपसर्गात्त्विति । 'स्तौतिण्योरेव-' इति नियमन मध्येऽपवादन्यायबलाद् 'आदेशप्रत्यययोः' इति षत्वमेव बाध्यत इति भावः। षणि किमिति । कृतषत्वनिर्देशः किमर्थ इति प्रश्नः । तिष्ठासतीति । 'धात्वादेः-' इति षस्य सत्वे स्था इत्यस्य द्वित्वे अभ्यासह्रस्वे इत्त्वे 'आदेशप्रत्यययोः' इति षत्वम् । कृतषत्वे सन्ये. वायं नियमः, अत्र तु सनः षत्वाभावेन नियमाप्रवृत्तेः षत्वं निर्बाधमिति भावः । सुषुप्सतीति । स्वप्धातोः सनि 'रुदविदमुषप्रहिस्वपि-' इति कित्त्वाद् 'वचिस्वपि-' इति संप्रसारणे कृते द्वित्वम् । कित्त्वान्न लघूपधगुणः । इहापि 'स्तौतिण्योरेष-' इति नियमो न भवति, सनः षत्वाभावादिति भावः। ननु पणि इणः परस्य सस्य चेत् षत्वं तर्हि स्तौतिण्योरेवेत्येतावदेवास्तु, अभ्यासादिति किमर्थमित्यत आह अभ्यासादित्युक्तेनेहेति । प्रतीषिषतीति। इरधातोः सनि 'अजादे द्वितीयस्य' इति स इत्यस्य द्वित्वे अभ्यासेत्त्वम् । इह षभूते सनि 'इण् गतौ' इति धातोः परस्य सस्य षत्वं भवत्येव, अभ्यासेणः परत्वे सत्येव नियमप्रवृत्तेरिति भावः। अधीषिषतीत्यष्येवम् । सः खिदि । सः स्विदीति छेदः । 'स्वौतिण्योरेव षण्यभ्यासात्' इति सूत्रं स्तौतिवर्जमनुवर्तते । 'सहे साडः सः' इत्यतः स इति षष्ठ्यन्तं च, तदाह अभ्यासेण इति । सकारविधिनियमार्थ इत्याह सस्य स एवेति । सुनोतेः सनि 'स्तौतिण्योरेव-' इति नियमादुत्तरखण्डस्य षत्वाभावे अभिसुसूषतीत्यत्र उपसर्गात्त्विति । मध्येऽपवादन्यायात् 'स्तौतिण्योः-' इति नियमेन 'आदेशप्रत्यययोः' इति षत्वमेव बाध्यते, न तु 'स्थादिष्वभ्यासेन च-' इत्युत्तरेण विहितमिति मावः। सुषुप्सतीति। 'रुदविद-' इति सनः कित्त्वान गुणः । प्रतीषिषतीति। इह षभूते सनीण गताविति धातोः परस्य सस्य षत्वं भवत्येवेत्यर्थः । नियमाने.