________________
४६४ ]
सिद्धान्तकौमुदी।
[सन्( स २५७७) पिपावयिषति, विभावयिषति, यियावयिषति, रिरावयिषति, लिलावयिषति, जिजावयिषति । पुयरिज इति किम्-नुनावयिषति । अपरे किम्-बुभूषति । 'स्रवति-' (सू २५७८) इतौरवं वा, सिनायि. षति । सुस्रावयिषतीत्यादि ! अपरे इत्येव, शुश्रूषते । २६२७ स्तौतिण्योरेवं षण्यभ्यासात् । (८-३-६१) अभ्यासेणः परस्य स्तौतिण्यन्तयोरेन सस्य षः स्यात् षभूते सनि नान्यस्य । तुष्ट्रपति । 'यतिस्वाय:-(स २३४४) इत्युत्त्वम् । सुष्वापयिषति । सिषाधायेषति । स्तौतिएयोः किम्-सिसिक्षति । सकारेण व्यवहिततया पवर्गपरत्वाभावात् । चुनावयिषतीति । क्षुधातोः ण्यन्तात् सनि इटि क्षु इत्यस्य द्वित्वम्। परिनिष्ठिते रूपे अवर्णपरत्वेन णावन आदेशस्य निषेधादिति भावः। अोः पुयणिति । हेतुमरिणच्प्रक्रियाया मेदं व्याख्यातमपि स्मार्यते । पिपावयिषतीत्यादि । पू, भू , यु, रु, लू , जु एभ्यो ग्यन्तेभ्यः सनि इटि द्वित्वे कार्ये णाव यादेशनिषेधाद् उवणन्तानामेव द्वित्वे अभ्यासोवर्णस्य इत्त्वमिति भावः । जुः सौत्रो धातुः 'जुचकम्य-' इत्यत्रोक्तः । अथ 'स्रवतिशृणोति-' इति सूत्रं हेतुमरिणच्प्रक्रियायां व्याख्यातं स्मारयति स्त्रवतीतीत्वं वेति । शुश्रूषते इति । 'ज्ञाश्रुस्मृदृशां सन' इत्यात्मनेपदम् । स्तौतिण्योरेव । षणीति कृतषत्वस्य सनो ग्रहणम् । 'अादान्तस्य मूर्धन्यः' इत्यधिकृतम् , 'इएकोः-' इति च । तत्र कुप्रहणं निवर्तते असं वात् । णिग्रहणेन तदन्तग्रहणम् । 'सहेः साडः सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते, तदाह अभ्यासेण इत्यादि । षभूते इति । षकारं प्राप्ते सनीत्यर्थः । नान्यत्रेति । अभ्यासेणः परस्य चेत्सस्य षत्वं तर्हि स्तौतिण्यन्तयोरेवेत्यर्थः । । च 'श्रादेशप्रत्यययोः' इत्येव सिद्धे प्रारम्भसामर्थ्यादेव नियमलाभाद् एवकारो पर्थ इति शङ्कथम् , षरयेवेति नियमनिरसनार्थत्वात् । षण्येवेति नियमे सति तुष्टावेदन पत्वानापत्तेः। स्तौतेरुदाहरति तुष्ट्रपतीति । 'अज्झन-' इति दीर्घः । एट न्तस्योदाहरिष्यन्नाह द्यतीति । उत्त्वमिति । वकारस्य संप्रसारणमुकार इत्यर्थः । सुवापयिषतीति। खपेौँ उपधावृद्धौ स्वापि इत्यस्मात् सनि इटि वकारस्य संप्रारणे पूर्वरूपे सुप इत्यस्य द्वित्वे गर्गुणेऽयादेशे सनः षत्वे अभ्यासेणः परस्य पत्वमिति भावः । सिषाधयिषतीति । अत्रापि ण्यन्तत्वादभ्यासेणः परस्य सस्य षत्वमिति भावः । व्याख्यातमिह तु स्मारितम् । जिजापयिषतीति । जुः सौत्रो धातुः 'जुचक्रम्य-' इत्यत्रोक्तः । शुश्रूषते इति । 'ज्ञाश्रुस्मृदृशां सनः' इत्यात्मनेपदम् । स्तौतिण्यो. रेव । एवं च सिषाधयिषेति प्रयोगस्य साधुत्वं न तु सिसाधयिषेत्यस्येति ज्ञेयम् ।