________________
प्रकरणम् ५४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६३ (स् २६०१) इति सूत्राभ्यामिडो गाल्, श्वयतेः संप्रसारणं च वा । अधिजिगापयिषति, अध्यापिपयिषति । शिश्वाययिषति, शुशावयिषति । 'हः संप्रसारणम्' (सू २५८६) जुहावयिषति। 'णौ द्वित्वात्प्रागच प्रादेशो न' इस्युक्रत्वादुकारस्य द्वित्वम् । पुस्फारयिषति । चुनावयिषति । 'भोः पुयएज्यपरे' 'निमित्तापाये-' इत्यस्य अनित्यता ज्ञापयतीत्यर्थः । यद्यप्यत्र वधशब्दे अप्प्रत्ययो वधादेशश्च युगपद्विहितः, न तु प्रत्यये परे । तथापि संनियोगशिष्टत्वात् प्रत्ययस्य निमित्तत्वं पर्यवसानगत्येति बोध्यम् । वस्तुतस्तु पुष्ययोगं जानाति पुष्येण योजयती. त्येतत्साधके 'पुष्ययोगे ज्ञि' इति वचने भाष्योक्तप्रकृतिप्रत्यापत्तिरित्यनुवृत्तिरिह ज्ञापिका । तत्र हि 'चजोः-' इति घिति परतः कुत्वम् । अन्यथा कृल्लुकि निमित्तापायपरिभाषयैव कुत्वनिवृत्तौ किं प्रकृतिप्रत्यापत्त्यनुवृत्त्येति शन्देन्दुशेखरे विस्तरः। अथ 'इङ् अध्ययने' 'टु ओ शिव गतिवृद्धयोः' इत्याभ्यां ण्यन्ताभ्यां सनि विशेषमाह णौ चेति । 'णौ च संश्चलोः' इति सूत्रं द्वितीयस्य चतुर्थे पादे षष्ठस्य प्रथमे पादे च स्थितम् । सन्परे चपरे च णौ इडो गाङ् वेति प्रथमस्यार्थः । सम्परे चपरे च णौ श्वयतेः संप्रसारणं वेति द्वितीयस्यार्थः। प्रथमसूत्रेण इलो गाइ, द्वितीयसूत्रेण श्वयतेः संप्रसारणमित्यु. भयमपि पाक्षिकं भवतीत्यर्थः । अधिजिगापयिषतीति । इडो णौ विवक्षिते गाडि पुकि गापि इत्यस्मात्सनि रूपम् । ‘णौ च संश्चलोः' इति गाविधौ विषयसप्तमीति प्रागेवोक्तम् । गाङभावे आह अध्यापिपयिषतीति । 'क्रीजीनां णौ' इत्यात्त्वे पुक् । शिश्वाययिषतीति । श्विधातोर्णी वृद्धावायादेशे श्वायि इत्यस्मात्सनि संप्रसारणाभावे रूपम् । संप्रसारणपक्षे आह शुशावयिषतीति । ण्यन्तात्सनि इटि शिव इ इस इति स्थिते 'संप्रसारणं तदाश्रयं च कार्य बलवत्' इति वचनात्प्रथमं संप्रसारणं पूर्वरूपम् । शु इत्यस्य द्वित्वे उत्तरखण्डे उकारस्य वृद्धावावादेशे णिचो गुणायादेशा. विति भावः । ह्वः संप्रसारणमिति । हेतुमएण्यन्तप्रक्रियायां व्याख्यातम् । जुहावयिषतीति । ह्वेनो एयन्तात्सनि इटि प्रथमं संप्रसारणं पूर्वरूपम् । हु इत्यस्य द्वित्वम् । उकारस्य वृद्धयावादेशौ, णिचो गुणायादेशाविति भावः। ननु परत्वाद् द्वित्वात् प्रागेव उकारस्य वृद्धयावादेशयोः कृतयोः हाव् इत्यस्य द्वित्वे अभ्यासस्यात इत्त्वे इकार एव श्रूयतेत्यत श्राह णौ द्वित्वादिति । पुस्फारयिषतीति । स्फुरतर्यन्तात्सनि इटि 'चिस्फुरोो' इत्यस्मात् प्रागेव स्फुर् इत्यस्य द्वित्वम् , द्वित्वे कार्य णावच आदेशस्य निषेधात् । श्रोः पुयएिज-' इति इत्त्वं तु न, फकारस्य भोजन इति क्यादिस्तु नित्यं सेडेव। सूत्राभ्यामिति । एक द्वितीयेऽपरं तु षष्ठे । तत्रायेन गागदेशोऽपरेण संप्रसारणम् । हः संप्रसारणम् । इदं च गिजन्तेषु