________________
प्रकरणम् ५४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६१ तितीर्षति । विवरिषति, विवरीषति, वुवर्षति । वृङ्-बुवूषते, विवरिषते । दुध्र्षति । २६२६ स्मिपूज्वशां सनि । (७-२-७४) स्मिङ्, पङ्, ऋ, अजू, अश, एभ्यः सन इट् स्यात् । सिमयिषते । पिपविषते । अरिरिषति । इह रिस्शन्दस्य द्वित्वम् । इस् इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगाद् द्विवचनेऽचि' (सू २२४३) इति न प्रवर्तते। इट्सनि वा। 'वृतो वा' इत्यतो वृत इत्यनुवर्तत इति मत्वाह वृद्धृभ्यामित्यादि। 'सनि ग्रहगुहोश्च' इत्यस्यापवादः । चिकीर्षतीत्यादौ 'अज्झन-' इति दीर्घ कृते सनि नेदं प्रवर्तते, 'एकाच उपदेशे-' इत्यत उपदेशे इत्यनुवर्य उपदेशे ऋकारन्तादिति व्याख्यानात् । तितरिषति, तितरीषतीति । तृधातोः सनि लटि 'वृतो वा' इति दीर्घः । इडभावे त्वाह तितीर्षतीति । 'इको झल्' इति कित्त्वाद् गुणाभावे तृ इत्यस्य ऋकारस्य इत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति भावः । विवरिषतीति । वृधातोः सनि इटि 'वृतो वा' इति दीर्घविकल्पः । इडभावे त्वाह वुवूर्षतीति । 'उदोष्ठ्य-' इत्युत्त्वे रपरत्वे 'हलि च' इति दीर्घः । वुवर्षते इति । डित्त्वादात्मनेपदम् । दुव्र्षतीति । 'वृ कौटिल्ये' । 'अज्झन-' इति दीर्घः । 'उदोष्ठ्य-' इत्युत्त्वे 'हलि च' इति दीर्घ इति भावः। स्मिपूङ । स्मि, पूङ्, ऋ, अजू, अश एषां द्वन्द्वः । ऋकारस्य यणि रेफे रज्विति निर्देशः । इद स्यादिति । 'इडत्यर्ति-' इत्यतस्तदनुवृत्तेरिति भावः । पूजस्तु पुपूषतीत्येव । 'सनि ग्रह-' इति इएिनषेधात् । सिस्मयिषते इति । 'स्तौतिश्योरेव-' इति नियमान षः। पिपविषत इति । पूधातोः पू इत्यस्य द्वित्वे 'श्रोः पुयरिज' इति इत्त्वम् । अरिरिषतीति । ऋधातोः सनि इटि रूपम् । रिस्शब्दस्येति । . गुणे रपरत्वे 'अजादेर्द्वितीयस्य' इति रिस् इत्यस्य द्वित्वमित्यर्थः । ननु 'द्विर्वचनेऽचि' इति निषेधाद् गुणासंभवाद् रिस इत्यस्य कथं द्वित्वमित्यत आह द्विर्वचनेऽचि इति न प्रवर्तते इति । कुत इत्यत आह कार्यिणो निमित्तत्वायोगादिति । 'नहि कार्थी निमित्ततया श्राश्रीयते' इति निषेधादिडादेः सनो ऋकारान्सादिति व्याख्यानात् । अत एवेटं विनवोदाहरति दुव्र्षतीति । वृ कौटिल्ये । 'अज्झन-' इति दीर्घः । 'उदोष्ठ्यपूर्वस्य' इत्युत्वं रपरत्वं 'हलि च' इति दीर्घः । स्मिपूङ् । पूनिति उकारानुन्धग्रहणात् पूजः पुपूषतीत्येव । 'सनिग्रह-' इतीपिनषेधात् । सिमयिषत इति । स्मिङ् ईषद्धसने अस्यानिटत्वादिडागमस्याप्राप्तिः । 'स्तौतिण्योरेव-' इति नियमान षः। अरिरिषतीति । अस्याप्यनिट्त्वादिडागमस्याप्राप्तिः । रिस्शब्दस्येति । सन इटि गुणे च कृते अरिस् इति स्थिते