________________
प्रकरणम् ५४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५६ मीमाधुरभलभशकपतपदामच इस् । (७-४-५४) एषामच इस्स्यात्सादी सनि । अभ्यासलोपः । 'स्को:-' (सू ३८०) इति सलोपः। पित्सति । दिदरिद्विषति दिदरिद्रासति । दु मिन् , मीञ् प्राभ्यां सन् । कृतदीर्घस्य मिनोतेरपि मीरूपाविशेषादिस् । 'सः सि-' (सू २३४२) इति तः, मित्सति, मिस्सते । मा माने-मिस्सति । माङ्मेको:-मिरसते । दोदाणो:-दिसति । झलादाविति भाष्ये स्थितमिति भावः । आशङ्कायामिति । आशङ्काविषयक्रियावृत्ते
र्धातोः स्वार्थे सन्नित्यर्थः । श्वा मुमूर्षतीति । शङ्कितमरणो भवतीत्यर्थः । कूलं पिपतिषतीति । शङ्कितपतनं भवतीत्यर्थः । 'तनिपति-' इति इट्पक्ष रूपम् । पतेः सनि इडभावपक्षे त्वाह सनि मीमा। सादी सनीति । 'सः सि-' इत्यतः सीत्यनुवृत्तेरिति भावः । अभ्यासलोप इति । 'अत्र लोप:-' इत्यनेनेति भावः । पिस्त् स ति इति स्थिते आह स्कोरिति । दरिद्रातः सनि 'तनिपति-' इति इड्विकल्प. मुदाहरति दिदरिद्रिषति दिदरिद्रासतीति । डु मिनिति । 'डु मिञ् प्रक्षेपणे' स्वादिः, 'मी हिंसायाम्' क्रयादिः, श्राभ्यां सन्नित्यर्थः । 'सनि मीमा-' इत्यत्र मीग्रहणेन एतयोरुभयोर्ग्रहणमिति भावः । ननु मी इति दीर्घश्रवणाद् डु मिञ् इत्यस्य ह्रस्वान्तस्य कथं ग्रहणमित्यत आह कृतदीर्घस्येति । ड मिअधातोः सनि 'अज्झन-' इति कृतदीर्घस्य तथा 'मी हिंसायाम्' इति स्वतः सिद्धदीर्घस्य च मीरूपाविशेषादुभयोरपि ग्रहणमित्यर्थः । सः सीति । उभयोरपि धात्वोः मी स इति स्थिते 'सनि मीमा-' इति इसादेशे द्वित्वे 'अत्र लोपः' इत्यभ्यासलोपे 'सः सि-' इति सभ्य तकार इत्यर्थः। मित्सति, मित्सते इति । प्रकृतेर्मित्त्वात् 'पूर्ववत्सनः' इति उभयपदित्वम् । माङ्मेङोरिति । मेछः सनि 'आदेच:-' मरणशक्षाविषयो भवतीत्यन्ये । 'पूर्ववत्सनः' इत्यात्मनेपदमिह न शङ्कयम् , 'शदेः-' इत्यादिसूत्रद्वये सनो नेत्यनुवर्त्य वाक्यभेदेन व्याख्येयमिति वक्ष्यमाणत्वात् । सनि मीमा । 'सः सि-' इत्यतः सीत्यनुवर्तते तस्य सनो विशेषणत्वात्सादौ सनीति लाभः । मीरूपाविशेषादिति । ननु मिनोतेरूिपस्य लाक्षणिकत्वाद् मीग्रहणेन प्रहणं न प्राप्नोति । नैष दोषः, यत्र लक्षणाभिनिवृत्तत्वेन शब्दरूपमपेक्ष्यते तत्र लक्षणप्रतिपदोक्लयोरिति परिभाषोपस्थानं न तु यत्र प्रयोगाश्रयणं तत्रति 'इको झल्' इति सूत्रे कैयटेनोक्तत्वात् । तस्यायमाशयः-मीरूपमात्रस्य प्रयोगोऽत्राश्रितः। 'विभाषा दिक्समासे-' इत्यत्र तु लक्षणाभिनिर्वृत्तस्य समासशब्दस्याश्रयणाद् ‘दिङ्नामान्यन्तराले' इति प्रतिपदोक्त एव समास आश्रीयत इति । लक्षणप्रतिपदोक्कपरिभाषाया अनित्यत्वात्क्वचिदुपतिष्ठते क्वचिनोपतिष्ठत इति तु निष्कृष्टोऽर्थः । मित्सतीति । 'हल
THEFHL