________________
४५८ ] सिद्धान्तकौमुदी।
[ सन्मल्' (सू २६१२) इति कित्वाच गुणः । 'अज्मन-' (सू २६१४ ) इति दीर्घः परत्वारिणलोपेन बाध्यते। 'भाजप-' (सू २६१६) इति ईत् । ज्ञीप्सति, जिज्ञपयिषति । अमितस्तु जिज्ञापयिषति । 'जनसन-' (सू २५०४) इत्यावम् । सिषासति, सिसनिषति । 'तनिपतिदरिद्रातिभ्यः सनो वा इड् वाच्यः' (वा २०१६) । २६१२ तनोतेर्विभाषा। (६-४-१७) अस्योपधाया दीर्घो वा स्यामलादो सनि । तितांसति, तितंसति, तितनिषति । 'अाशङ्कायां सन्वक्रव्यः' (वा १७०७) श्वा मुमूर्षति । कूलं पिपतिषति। २६२३ सनि 'हलि च' इति दीर्घः । सनः कित्त्वान्न गुण इति भावः । इट्पक्षे श्राइ बिभरिषतीति । भृ इस इति स्थिते द्वित्वे उरदत्वे रपरत्वे हलादिशेषे अभ्यासस्य अत इत्त्वे उत्तरखण्डस्य गुणे रपरत्वमिति भावः । शपिः पूगन्तो मित्संज्ञक इति । 'सनीवन्त-' इति सूत्रे गृह्यते इति शेषः । 'मारणतोषणनिशामनेषु ज्ञा' इति घटादौ, ततो हेतुमराणौ पुकि घटादित्वेन मित्त्वाद् उपधाहस्वे ज्ञपीति ण्यन्तो गृह्यत इत्यर्थः । पकारान्तश्चौरादिकश्चेति । 'ज्ञप मिच्च' इति यः स्वतः पकारान्तः पठितः चुरादौ, न तु पुगन्तः सोऽपि 'सनीवन्त-' इति सूत्रे गृह्यत इत्यर्थः । इडभावे इति । उभयविधादपि ण्यन्ताद् ज्ञपि इत्यस्मात् सनि इडभावपक्षे णेः परस्य सनः 'इको झल' इति कित्त्वारणेगुणो नेत्यर्थः । परत्वादिति । णेर्लोपे सति अचोऽभावान दीर्घ इति भावः। तथा च द्वीप इत्यस्य द्वित्वे हलादिशेषे 'अत्र लोप:-' इत्यभ्यासलोपे परिनिष्ठितमाह शीप्सतीति । इट्पक्षे आह जिज्ञपयिषतीति । अमितस्त्विति । मारणादिव्यतिरिक्तार्थकस्य घाटादिकस्य हेतुमगण्यन्तस्य 'ज्ञा नियोगे' इति चौरादिकण्यन्तस्य च मित्त्वाभावेन उपधाह्रस्वाभावात् 'सनीवन्त-' इत्यत्र ज्ञपिप्रहणेनाग्रहणानित्यमेव इडिति भावः, तदाह जिज्ञापयिषतीति । सनधातोः सनि आह जनसनेत्यास्वमिति । नकारस्येति शेषः। सिषासतीति । आत्त्वे कृते सा इत्यस्य द्वित्वे अभ्यासस्य हस्वे अत इत्त्वे षत्वे रूपम् । न च 'स्तौतिण्योरेव-' इति नियमान ष इति शङ्कथम् , सनः षत्वे सत्येव तत्प्रवृत्तेः। इट्पक्षे त्वाह सिसनिषतीति । अत्र 'जनसन-' इत्यात्त्वं तु न, सनो झलादित्वाभावात् । 'स्तौतिण्योरेव-' इति नियमान ष इति मावः । तनिपतीति । प्रापविभाषेयम् । तनोतेर्विभाषा। उपधाया दीर्घ इति। 'नोपधायाः-' इत्यतो 'ठूलोपे-' इत्यतश्च तदनुवृत्तेरिति भावः । झलादौ सनीति । 'अज्झन-' इत्यतस्तदनुवर्तते । तत्र वा ङित्त्वम् । न चेह सन्निति । किं तु नुशब्द इत्यर्थः । कित्त्वान्न गुण इति। णिचः स्थाने इत्यर्थः । श्वा मुमूर्षतीति । एकश्वविषया मरणशङ्केति बोधः ।