________________
प्रकरणम् ५४ ।
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ४५७
विषति । ऊर्णुनूषति, ऊर्णुनुविषति । न च परत्वाद् गुणावादेशयोः सतोरभ्यासे उकारो न श्रूयेतेति वाच्यम्, 'द्विर्वचनेऽचि' ( सू २२४३ ) इवि सूत्रेण द्विवे कर्तव्ये स्थानिरूपातिदेशादादेशनिषेधाद्वा । न च सनन्तस्य द्वित्वं प्रति कार्यित्वानिमित्तता कथमिति वाच्यम्, 'कायमनुभवन्हि कार्य निमित्ततया नाश्रीयते, न स्वननुभवन्नपि' ( प ११ ) । न चेह सन् द्विवमनुभवति । बुभूषति, बिभरिषति । ज्ञपिः पुगन्तो मित्संज्ञकः पकारान्तश्चौरादिकश्च । इडभावे 'इको
1
'सनीवन्त -' इति इडभावे ' अज्मन -' इति दीर्घः । यियविषतीति । इट्पक्षे 'द्विर्वचनेऽचि' इति गुणनिषेधाद् युइत्यस्य द्वित्वे 'श्रोः पुयरिज' इतीत्त्वमिति भावः । ऊर्णुनूपतीति । 'सनीवन्त -' इति इडभावपचे 'न न्द्राः -' इति रेफं वर्जयित्वा जुरा इत्यस्य द्वित्वे ' अज्झन -' इति दीर्घः । 'इको झल' इति सनः कित्त्वान्न गुणः । इट्पक्षे तु 'विभषोर्णोः' इति सनः ङित्त्वविकल्पं मत्वाह ऊर्णुनुविषतीति, ऊर्णुन विषतीति । ङित्त्वपचे गुणाभावान्नुशब्दस्य द्वित्वे उत्तरखण्डे उवङ् । वित्त्वाभावपक्षे नु इत्यस्य द्वित्वे उत्तरखण्डस्य गुणावादेशाविति भावः । उभयत्राप्यभ्यासे उवर्णः श्रूयते । ननु ङित्त्वाभावपक्षे ऊर्णु इस इति स्थिते द्वित्वात् प्रागेव परत्वाद् गुणे श्रवादेश च कृते नव्शब्दस्य द्वित्वे अभ्यासस्यात इत्त्वे ऊर्णिनविषतीति अभ्यासे इकार एवं श्रूयेत, न तु उकार इत्याशङ्कय निराकरोति द्विर्वचनेऽचीति । अस्मिन् सूत्रे स्थानिवदित्यनुवर्त्य रूपातिदेशं चाश्रित्य द्वित्वनिमित्ते अचि परे यः श्रादेशः स द्वित्वे कर्तव्ये स्थानिरूपं प्रतिपद्यते इत्यकोऽर्थः । 'न पदान्त-' इत्यतो नेत्यनुवर्त्य द्वित्वनिमित्ते चि यः प्रजादेशः स न स्याद् द्वित्वे कर्तव्ये इत्यन्योऽर्थः । तत्र प्रथमव्याख्याने तु कृतस्यापि गुणस्य स्थानिभूतोकाररूपप्रतिपत्त्या नु इत्यस्य द्वित्वे अभ्यासे उकार एव श्रूयते । द्वितीयव्याख्यानेऽपि द्वित्वात् प्राग् गुणस्य निषिद्धतया नुशब्दस्यैव द्वित्वे अभ्यासे उकार एव श्रूयते इति भावः । ननु ऊर्णु इस इति सन्नन्तस्य द्वित्वरूप कार्यभाक्तवेन तदन्तर्गतस्य इस इत्यस्यापि कार्यित्वान्न द्वित्वनिमित्तत्वम्, 'न हि कार्यों निमित्ततया श्राश्रीयते' इत्युक्तेः तथा च द्वित्वे कर्तव्ये द्वित्वनिमित्ताच्परकादेशस्य क्रियमाणो निषेधः कथमिह गुणस्य प्रसज्यत इत्याशङ्कय निराकरोति न च सम्न्नन्तस्येति । कार्यमनुभवन्निति । अत्र व्याख्यानमेव शरणम् | न चेह सन्निति । किंतु नुशब्द इत्यर्थः । बुभूषतीति । सनीवन्तेति इडभावपक्षे भृ स इति स्थिते 'अज्झन -' इति दीर्घे 'उदोष्ठयपूर्वस्य' इत्युत्त्वे रपरत्वे उत्तरखण्डत्य विषतीति । 'द्विर्वचनेऽचि' इत्यादेशनिषेधाद् द्वित्वे कृते श्रभ्यासस्योवर्णस्येत्वम् । ऊर्णुनूषतीति । इडभावे 'अज्झनगमाम् -' इति दीर्घः । इट्पक्षे तु 'विभाषोर्णोः' इति
1