________________
प्रकरणम् ५४] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५५ न्तेभ्य ऋधादिभ्यश्च सन इड् वा स्यात् । इडभावे 'हलन्ताञ्च' (सू २६१३) इति कित्त्वम् । 'छ्वोः-' (सू २५६१ ) इति वस्य अन् । यण् । द्विस्वम् । दुषति, दिदेविषति । 'स्तौतिण्योरेव-' (स् २६२७) इति वक्ष्यमाणनियमान षः । सुस्यूषति, सिसेविषति । २६१६ आप्क्षप्यधामीत्। (७-४-५५) एषामच ईस्स्यात्सादी सनि । २६२० अत्र लोपोऽभ्यासस्य । (७-४-५८) 'सनि मीमा-' (सू २६२३) इस्यारभ्य यदुनं तत्राभ्यासस्य लोपः स्यात् । प्राप्तुमिच्छति ईप्सति । अर्धितुमिच्छति । रपरत्वम् । चत्वम् । ईसति, सनीवन्तर्ध। सनि इवन्तेति च्छेदः । इवन्त, ऋध, भ्रस्ज, दन्भु, श्रि, स्तु, यु, ऊर्गु, भर, ज्ञपि, सन् , एषां द्वन्द्वः । इव् अन्ते येषां ते इवन्ताः । 'स्वरति-' इत्यतो वेति 'इग्निष्टायाम्' इत्यत इडिति चानुवर्तते, तदाह इवन्तेभ्य इत्यादि । इवन्तस्य दिवधातोरुदाहरिष्यन्नाह इडभावे इति । वस्येति । वकारस्येत्यर्थः । यणिति । दकारादिकारस्य इति शेषः । द्वित्वमिति । | इत्यस्यति शेषः । दुषतीति । 'अज्झन-' इति दीर्घः । इट्पक्षे आह दिदेविषतीति । अझलादित्वान्न सनः कित्त्वम् , अतो नोट्, किन्तु लघूपधगुण इति भावः । इवन्तस्योदाहरणान्तरं मिवुधातोः सुस्यूषतीति वक्ष्यते । तत्र द्वितीयस्य षत्वमाशङ्कयाह स्तोतिण्योरिति । सुस्यूषतीति । सिवुधातोः सनि इडभावे दुयूषतीतिवद्रूपम् । इट्पक्षे आह सिसेविषतीति । ऋध्धातोः सनि ईतिीति रूपं वक्ष्यन्नाह आज्ञप्यधामोत् । सादौ सनीति । 'सनि मीमाधुरभ-' इत्यतः सनीति अच इति चानुवर्तते । ‘सः स्यार्धधातुके' इत्यतः सीत्यनुवृत्तं सनो विशेष. णम् । तदादिविधिरिति भावः । अत्र लोपोऽभ्यासस्य । 'सनि मीमा-' इति 'आज्ञप्यधामीत्' इति 'दम्भ इच्च' इति 'मुचोऽकर्मकस्य गुणो वा' इति पूर्वसूत्रचतुष्टयविहितकार्यमत्रेत्यनेन परामृश्यते, तदाह सनि मीमेत्यारभ्येति । सूत्रचतुष्टयकायें कृते सतीत्यर्थः । ईप्सतीति । प्राप्धातोः सनि आकारस्य इत्त्वे 'अजादेद्वितीयस्य' इति स इत्यस्य द्वित्वे अभ्यासलोप इति भावः। रपरत्वमिति। ऋधेः सनि इडभावे ऋकारस्य ईत्त्वे रपरत्वमित्यर्थः । चत्वमिति । ई स इति स्थिते धस्य चर्वे 'न न्द्राः' इति रेफ वर्जयित्वा 'अजादेर्द्वितीयस्य' इति त्स इत्यस्य द्वित्वे अभ्यासस्य लोप इति भावः। 'पूर्वत्रासिद्धीयमद्वित्वे' इति वचनात् चत्वे कृते भित्त्वा, छित्त्वा, बुभुक्षते । आप्क्षप्य । 'सनि मीमा-' इत्यतः अच इत्यनुवर्तते, 'सः स्यार्धधातुके' इत्यतः सीति च, तदाह अच ईत्स्यात्सादाविति । सोत्यस्य सनो विशेषणात्सादाविति लाभः । ईप्सतीति । 'अजादेद्वितीयस्य' इति प्स.