________________
४५४ ] सिद्धान्तकौमुदी।
[रान्(सू २५४४ ) । दिद्युतिषते, दिद्योतिषते । रुरुचिषते, रुरोचियते । लिलिखिषति, बिल्लेखिषति । रजः किम्-दिदेविषति । न्युपधात् किम्-विवर्तिषते । हलादेः किम्-एषिषिषति । इह नित्यमपि द्विस्वं गुणेन बाध्यते । उपधाकार्य हि द्विस्वाप्रबलम्, प्रोणे–दिस्करणस्य सामान्यापेक्षज्ञापक वात् । २६१८ सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णभरज्ञपिसनाम् । (७-२-४६) इवकिताविति । 'नोपधास्थफान्ताद्वा' इत्यतः 'असंयोगाल्लिट् वित्' इत्यतश्च तदनु. वृत्तेरिति भावः । दिद्युतिषते इति । 'द्युत दीप्तो' अनुदात्तेत् । सनि द्वित्वे कित्त्वाद् 'द्युतिस्वाप्यो:-' इत्यभ्यासस्य संप्रसारणे पूर्वरूपे सनः कित्त्वान्न लघूपधगुण इति भावः । सनः कित्त्वाभावे श्राह दिद्योतिषते इति । 'पूर्ववत् मनः' इत्यात्मनेपदम् । एषिषिषतीति । इष्धातोः सन् इट, हलादित्वाभावन कि त्वाभावाद्गणे एए इस ति इति स्थिते 'अजादेद्वितीयस्य' इति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे रूपम् । नन्विह सत्यपि कित्त्वे नित्यत्वात् परमपि गुणं बाधित्वा षिस् इत्यस्य द्वित्वे धात्ववयवस्य इकारस्य उपधात्वाभावादेव गुणाप्रसक्नेहल देरिति व्यर्थमित्यत आह इह नित्यमपि द्वित्वं गुणेन बाध्यत इति कुत इत्यत आह उपधाकार्य हि द्वित्वात्प्रबलमिति । तच्च कुत इत्यत आह ओणेरिति । श्रोणेः ऋदित्करणस्य ज्ञापकत्वादित्यन्वयः । तथाहि ओणधातोः एयन्ताल्लुङि चछि 'णौ चड्युपधायाः-' इति ह्रखस्य 'नाग्लं पिशास्वृदिताम्' इति निषेधे सति ओणि अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानोणिणदिति रूपम् । अत्र उपधाहखनिषेधार्थमोणेः ऋदित्करणम् । उपधाह्रखे कृते तु उण इ अत् इति स्थिते णि इत्यस्य द्वित्वे मा भवानुणिणदिति स्यात् । ठोकारो न श्रूयत इति स्थितिः । यदि तु नित्यत्वाद् उपधाह्रखात् प्रागेव ओण् इ अत् इत्यस्यां दशायां द्वित्वं स्यात् । तदा श्रोकारस्य उपधात्वाभावादेव ह्रस्वाप्रसस्त निषेधार्थमृदित्करण. मनथेकं स्यात् । तस्मादुपधाह्रस्वात्मकम् उपधाकार्य द्वित्वात् प्रबलमिति विज्ञायते इत्यर्थः । ननु भवतु उपधाह्रखो द्वित्वात् प्रबलः। प्रकृते तु उपधागुणः कथं द्वित्वात् प्रबलः स्यादित्यत आह सामान्यापेक्षेति। उपधाहरवस्य उपधाकार्यत्वेन रूपेण द्वित्वात् प्राबल्यविज्ञानादित्यर्थः । वस्तुतस्तु ‘णौ च पधायाः-' इति सूत्रे यदयमोणिमृदितं करोति तज्ज्ञापयति द्विवचनाद्धस्वत्वं बलीर इति भाष्ये विशिष्य उपधाह्रस्वग्रहणात् सामान्यापेक्षत्वं ज्ञापकस्य चिन्त्यमिति शब्देन्दुशेखरे प्रपञ्चितम् । सेडिति वर्तते। चकारेण क्त्वायाः संग्रहः । 'असंयोगात् -' इत्यतः किदिति, 'नोपधात्-' इत्यतो वेति चानुवर्तते, तदाह क्त्वासनावित्रादि । सेट् किम् ,