________________
प्रकरणम् ५४] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५३ इणो गमिः स्यात् सनि, न तु बोधने । जिगमिषति । बोधने प्रतीषिषति । 'इण्वदिकः' ( वा १५७७)। अधिजिगमिषति । कर्मणि तङ् । 'परस्मैपदेषु' इत्युक्तर्नेट् । 'झलादौ सनि' इति दीर्घः । जिगांस्यते । अधिजिगांस्यते । प्रजा. देशस्येत्युक्नेगच्छतेनं दीर्घः । जिगस्यते । संजिगंसते । २६१६ इङश्च । (२-४-४८) इडो गमिः स्यात्सनि । अधिजिगांसते । २६१७ रलो व्युपधाद्धलादेः संश्च । (१-२-२६) उश्च इश्च वी । ते उपधे यस्य तस्माद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा किती स्तः । 'यतिस्वाप्योः संप्रसारणम्'
इणो गमिरित्यादि । जिगमिषतीति । गमेरिति इट् । अत्र 'अज्झनगमाम्-' इति दी? न, झलादौ सनीत्युक्तेः। प्रतीषिषतीति । बोधयितुमिच्छतीत्यर्थः । अत्र बोधनार्थत्वादिणो न गमिः । इ स इति स्थिते 'अजादेर्द्वितीयस्य' इति सनो द्वित्वे अभ्यासेत्त्वम् । प्रतिना सवर्णदीघे सकारद्वयस्यापि षत्वमिति भावः । 'इक् स्मरणे' इत्यस्याह इण्वदिक इति । अनेन वार्तिकेन इधातुरिगवद्भवतीत्यर्थः । ततश्च 'सनि च' इति गमिरादेश इति भावः। कर्मणि तङिति । इराधातोरिग्धातोश्च सन्नन्तात्कर्मणि लटस्तङित्यर्थः । 'भावकर्मणोः' इत्यनेनेति भावः । परस्मैपदेष्विति । 'गमेरिट परस्मैपदेषु' इत्युक्तेस्तङि नेडियर्थः । झलादा विति । 'अज्झन-' इति झलादौ सनि विहितो दीर्घ इत्यर्थः । जिगांस्यते इति । गन्तुमिष्यते इत्यर्थः । इणो रूपम् । अधिजिगांस्यते इति । स्मर्तु. मिष्यत इत्यर्थः । इको रूपम् । जिगंस्यते इति । गम्लुधातोः सन्नन्तात्कर्मणि तडि रूपम् । गमेरजादेशत्वाभावान दीर्घः । इङश्च । गमिः स्यात् सनीति । 'णौ गमिः-' इत्यतः 'सनि च' इत्यतश्च तदनुवृत्तेरिति भावः । इको ङित्त्वात् 'पूर्ववत्सनः' इति । तङ् । परस्मैपदेष्वित्युक्तेनेंट । 'अज्झन-' इति दीर्घ इति भावः । रलो। क्त्वासनाविति । चकारेण 'पूङः क्त्वा च' इत्यतः त्वाया अनुकर्षादिति भावः । सेटाविति । 'न क्त्वा सेट्' इत्यतस्तदनुवृत्तेरिति भावः । वा हनिगम्योरित्यपरं कर्तव्यम् । एवं चाग्रहणमतिरिच्यमानं प्रवृत्तिभेदेन गमेविशेषणार्थम् । अजन्तस्य दीर्घो भवति अजादेशगमेश्चेति । झलादाविति किम् , जिगमिषति । 'गमेरिट परस्मैपदेषु' इति इट् । सनि च । 'णो गमिरबोधने इत्यतोऽबोधन इत्यनुवर्तते। प्रतीषिषतीति । तक्रकौण्डिन्यन्यायस्यानित्यत्वात्सन्रूपस्याभ्यासस्यत्वम् । अनित्यत्वे लिङ्गं तु 'नित्यं कौटिल्ये गतौ' इत्यत्र नित्यग्रहणमिति वक्ष्यते । संजिगंसते इति । 'समो गम्यच्छिभ्याम्' इति तङ् 'पूर्ववत्सनः' इति सन्नन्तादपि भवति । रलो व्युपधा । 'न क्त्वा सेट्' इत्यतः
HTRA