________________
४५२ ]
सिद्धान्तकौमुदी ।
[ सन्
हल्ग्रहणं जातिपरम् । तूंहू- तितृक्षति, तितृहिषति । २६१४ अज्झनगमां सनि । ( ६-४-१६) अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झला दौ सनि । 'सन्जिटोर्जेः' ( सू २३३१ ) । जिगीषति । 'विभाषा चेः' ( सू २५२५) । चिकीषति, चिचीषति । जिघांसति । २६१५ सनि च । ( २-४-४७ )
ननु 'हू हिंसायम्' तुदादिः नोपधोऽयम् । कृतानुस्वारस्य निर्देशः । अस्मात्मनः 'अनिदिताम् -' इति नलोपार्थं कित्त्वमिष्यते । तन्नोपपद्यते । नात्र इक्समीपादनुखारात् सन् परो भवति, दकारेण व्यवधानात् । दारातु परः सन् इक्समीपाद्धलः परो न भवति, अनुस्वारेण व्यवधानादित्यत श्राह हल्ग्रहणं जातिपरमिति । हल्त्वजात्याकान्तैकानेक व्यक्लिपरमित्यर्थः । ह्विति । तूंहधातोः प्रदर्शनमिदम् । तितृक्षतीति । ऊदित्त्वादिडभावपचे रूपम् । सनः कित्त्वान्नलोपो लघूपधगुणाभावश्च । ढत्वकत्वषत्वानि । इद् ने यह तितुंहिपतीति । झलादित्वाभावेन कित्त्वाभावान्नलोपो नेति भावः । अज्झनगमां सनि । अच्, हन् गम् एषां द्वन्द्वः । 'नोपधायाः' इत्यत उपधाया इलनुवृत्तं हनगमोरवेति, नवजन्ते, असंभवात् । अङ्गस्येत्यधिकृतम् । श्रचस्तद्विशेषणत्वात्तदन्नविधिः, गमधातुरिह प्रजादेश एव विवक्षित इति प्रकृतसूत्रभाष्ये स्पष्टम् । 'ठूलोपे पूर्वस्य इत्यतो दीर्घ इत्यनुवर्तते, तदाह अजन्तानामित्यादिना । भलादौ सनीति । 'च्छ्वोः शृह-' इति सूत्रभाष्ये ' अज्झनगमाम् -' इत्यत्र सनं मला विशेषयिष्याम इत्युक्तेरिति भावः । अथ जिधातोरभ्यासात् परस्य कुत्वविधि स्मारयति सन्लिटोर्जेरिति । जिगीषतीति । जेर्दीर्घे अभ्यासात्परस्य कुत्वम् । श्रथ चिञ्धातोरभ्यासात्परस्य कुत्वविकल्पं स्मारयति विभाषा चेरिति । चिकीपति, चिचीषतीति । अजन्तत्वाद्दीर्घः । जिघांसतीति । हनेः सनि 'अज्झन-' इत्यकारस्य दीर्घः, न त्वन्त्यस्य नकारस्य । दीर्घश्रुत्या चरत्युपस्थितेः । द्वित्वम्, 'अभ्यासाच्च' इति कुत्वम् । 'नव' इत्यनुस्वारः । सनि च । 'इगो गा लुङि' इत्यत इति 'गौ गमिरबोधने' इत्यतो गमिरबोधने इते चानुवर्तते, तदाह द्विशेषणस्यान्तशब्दस्य परनिपातः । तितृक्षतीति । कित्त्वे सति 'अनिदिताम्-' इति नलोपः । अज्झनगमाम् । गमः सामान्येन ग्रहणे गम्लु गतावित्यस्मात् संजिगंसते इत्यत्रातिप्रसङ्गः स्यादतः 'सनि च' 'इङश्व' इति सूत्राभ्यां विहितस्येणिङोरादेशस्य 'इण्वदिकः' इति इक आदेशस्य च प्रहणमित्याशयेनाह श्रजादेशगमेरिति । एतच्च सूत्रेऽज्हणाल्लभ्यते । तथाहि - इह सनीत्येव सूत्रं कर्तव्यम्, दीर्घश्रुत्योपस्थितेनाच इत्यनेनाशस्य विशेषरणादजन्ताङ्गस्य दीर्घः, चिचीषति । ततो