________________
प्रकरणम् ५४] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५१ ज्मलादिः सन्किरस्यात् । बुभूषति । दीड-दातुमिच्छति दिदीषते। एविषय. स्वाभावात् 'मीनातिमिनोति- (सू २५०८) इत्यावं न । अत एव 'सनि मीमा-' (सू २६.३) इति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम् । २६१३ हलन्ताञ्च । (१-२-१०) इक्समीपाडलः परो मलादिः सन्किरस्यात् । गुहू , जुघुतति । बिभिरसति । इकः किम्-यियक्षते । मल् किम्-विवर्धिषते ।
भॊवादिकयोः सनि किरादित्वाभावादिडभावे 'अज्झनगमा सनि' इति दीर्घ 'ऋत इद्धातोः' इति इत्त्वे, रपरत्वे, 'हलि च' इति दीर्घ, षत्वे, उद्दिधीर्ष इत्यस्मात् 'सनाशंसभिक्ष उः' इत्युप्रत्यये उद्दिधीर्षुरिति रूपमिति गृहाण जानीहीति शङ्ककं प्रति उत्तरम् । इको झल् । इगन्तादिति । सना आक्षिप्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सन् किदिति । 'रुदविदमुषप्रहि-' इत्यतः 'असंयोगाल्लिद कित्' इत्यतश्च तदनुवृत्तरिति भावः । बुभूषतीति । कित्त्वान गुणः। उकः परत्वानेट । दिदीषते इति । सनः कित्त्वान गुणः। दीडो हित्वात् 'पूर्ववत्सनः' इत्यात्मनेपदम् । एविषयत्वाभावादिति । कित्त्वे गुणनिषेधादिति भावः । अत एवेति । यद्येविषयादन्यत्राप्यात्वं स्यात् तदा मीमेति पृथक् ग्रहणमनर्थकं स्यात् । 'मादाग्रहणेष्वविशेषः' इत्युक्तरिति भावः । हलन्ताच्च । 'इको झल्' इति पूर्वसूत्रमनुवर्तते । 'रुदविदमुष-' इत्यतः सनिति 'असंयोगाल्लिट्-' इत्यतः किदिति च । हलिति लुप्तपञ्चमीकं पदम् । अन्तशब्दः समीपवाची, तदाह इक्समीपादित्यादि । जुघुततीति । सनः कित्त्वान्न गुणः । 'सनि ग्रहगुहोश्च' इत्यूदित्त्वेऽपि नित्यं नेट् । हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः । बिभित्सतीति । 'भेदेः सनः कित्त्वान गुणः । यियक्षते इति । अत्र हलः इक्समीपत्वाभावान कित्त्वम् । सति तु कित्त्वे यजेः संप्रसारणं स्यादिति भावः । विवर्धिषते इति । वृधेः सनि रूपम् । अत्र सन इटि झलादित्वं नेति भावः । कयोरिति । तथा च 'अज्झनगमाम्-' इति वक्ष्यमाणेन दीर्घ इति भावः । इको झल् । 'सदविद-' इत्यतः सन्ननुवर्तते, सनाक्षिप्तो धातुरिका विशेष्यते, विशेषणेन च तदन्तविधिरित्याह इगन्तादिति । इगन्तात् किम् , पिपासति, तिष्ठासति । झलीति किम् , शिशा येषते । कित्स्यादिति । 'असंयोगाल्लिट कित्' इत्यतः किद. नुवर्तत इति भावः । एज्विषयत्वाभावादिति । कित्त्वेन गुणाप्राप्तेरित्यर्थः । अत एवेति । यद्येविषयादन्यत्राप्यात्वं भवेत्तदा मीग्रहणं तत्र न कुर्यादामादाप्रहणेष्वविशेषादिति भावः। हलन्ताश्च । इगित्यनुवर्तते तदवयवत्वं हलो न संभवतीति समीपवाच्यत्रान्तशब्द इत्याशयेन व्याचष्टे इक्समीपादिति । सौत्रत्वा