________________
४५० ] सिद्धान्तकौमुदी।
[ सन्२६११ किरश्च पञ्चभ्यः । (७-२-७५) कृ, गृ, रङ, धृङ् , प्रच्छ् एम्यः सन इट् स्यात् । पिपृच्छिषति । चिकरिषति । जिगरिषति । जिगलिषति । अोटो दीर्घो नेष्टः । दिदरिषते । दिधरिषते । कथम् 'उद्विधीपुः' इति । भौवा. दिकयोध्लोरिति गृहाण । २६१२ इको झल् । (१-२-६) इगन्ताकथं भष्भाव इत्यत आह सनः षत्वस्येति । कत्वस्यासिद्धत्वादित्येव सुवचम् । जिघृक्षतीति । गृह् स इति स्थिते हकारादिणः परस्य सस्य षत्वं परत्वात् प्राप्त तस्यासिद्धत्वाद् हस्य ढत्वे भष्भावः, ततः कत्वे कात्परस्य षत्व मेति क्रम इति भावः । गुहेः जुघुत्ततीत्युदाहार्यम्। उगन्ताद् बुभूषति । अत्र श्रयुकः कितीत्यनेन तु न सिध्यति, तत्र कित एव निषेधात् । परत्वादिडागमे 'इको झल' इत्यस्याप्राप्तेः । स्पष्टं चेदं शब्देन्दुशेखरे। सुषुप्सतीति । सनः कित्त्वाद् 'वचिस्वपि-' इति संप्रसारणं लघूपधगुणाभावश्च । किरश्च पञ्चभ्यः । किर इति पञ्चमी। किरादिभ्य इति विवक्षितम् । तुदादौ 'कृ विक्षेपे, गृ निगरणे, हङ् श्रादरणे, शृङ् अवस्थाने, प्रच्छ ज्ञोप्सायाम्' इति स्थिताः, तदाह कृ गृ इत्यादिना । सन इडिति । 'स्मिपू.
ज्वशां सनि' इत्यतः 'इडत्यर्ति-' इत्यतश्व तदनुवृत्तेरिति भावः । किरतिगिरत्योः 'इट् सनि वा' इति विकल्पे अन्येषां च 'एकाच-' इति निषेधे गप्ते अयमिड्विधिः । शब्देन्दुशेखरे तु 'सनि ग्रह-' इति 'एकाच-' इति च निषेधे प्राप्ते वचनमित्युक्तम् । पिपृच्छिषतीति । सनः कित्त्वाद् 'अहिज्या-' इति संप्रसारणम् । चिकरिषतीति । कृधातोः सनि इटि रूपम् । जिगरिषतीति । 'गृ निगरणे' इत्यस्मात्सनि इटि रूपम् । जिगलिषतीति । 'अचि विभाषा' इति लत्वविकल्प इति भावः । इट् सनि त्यस्यायमपवादः। चिकरिषति, जिगरिषति इत्यत्र 'वृतो वा' इति दीर्घमाशङ्कयाह अटो दी? नेष्ट इति । वार्तिकमिदं वृत्तौ स्थितम् । भाष्ये तु न दृश्यते । दिदरिषते, दिधरिषते इति । दृलो धृङश्च सनि इटि रूपम् । 'पूर्ववत्सनः' इत्यात्मनेपदम् । कथमिति । उद्दिधीर्षुरिति कथमित्यन्वयः । किरादित्वेन इटप्रसशादिति भावः। भौवादिकयोरेति । 'धृङ् अवस्थाने, धृञ् धारणे' इत्यनयोउक इत्यनुकृष्यते। उगन्ताद् बुभूषति, लुलूषति । श्रयतिस्तु नानुकृष्यते । तस्य 'सनीवन्तर्ध-' इति विकल्पविधानात् । किरश्च पञ्चभ्यः । पञ्चप्रहणमुत्तरार्थ स्पष्टप्रतिपत्तय इहैव कृतम् । एवं च प्रच्छधातोरनन्तरं गणपाठस्थं वृत्करणं त्यक्तुं शक्यम् । अत्रत्यपश्चभ्य इत्यनेनैव वृत्करणं यत्तदपाणिनीयमिति व्याख्येयमित्याहुः। केचित्तु-'भूषाकर्मकिरादिसनाम्-' इति वार्तिके किरादिज्ञानार्थ कृत्करणमावश्यकमित्याहुः । अत्रेट इति । 'वृतो वा' इति प्राप्ते भाष्यकारेष्टिरियम् । भौवादि