________________
४४८] सिद्धान्तकौमुदी।
[सन्इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । धातोर्विहित. स्वादिह सन आर्धधातुकत्वम् । इट् । द्वित्वम् । 'सन्यतः' (सू २३१७ )। पठितुमिच्छति पिपठिषति । कर्मणः किम्-गमनेनेच्छतीति करणान्माभूत् । समानकर्तृकात् किम्-शिष्याः पठन्स्वितीच्छति गुरुः । वाग्रहणात्पक्ष वाक्य. मपि । 'लुङ्सनोर्घस्लू' (सू २४२७)। 'एकाच उपदेशे-' (सू २२४६) इति नेट् । सस्य तत्वम् । अत्तुमिच्छति जिघरसति । 'ईय॑तेस्तृतीयस्य-' ( वा ३४०३ ) इति यिसनोत्विम् । ईयियिषति ईयिषिषति । २६०६ रुद. कत्वमपि इच्छानिरूपितमेव विवक्षितम् । कर्मेति स्ववाचकशब्द द्वारा धातो सामानाधिकरण्येनान्वेति । एवं च इच्छासमानकर्तृकत्वे सति इच्छाकर्मीभूतो यो व्यापारः तद्वाचकाद्धातोरिच्छायां सन् वा स्यादिति फलति, तदाह इषिकर्मण इत्यादि । इषिरिच्छा । इषिणा एककर्तृकत्वाद् इषिकर्मीभूतव्यापारवागकाद्धातोरित्यर्थः । ननु समानकर्तृकादित्युक्त्यैव धातोरिति लब्धम् । धात्वर्थव्यापाराश्रयस्यैव कर्तृत्वादित्यत श्राह धातोरिति । धातोरिति विहितस्यैव प्रत्ययस्यार्धधातुकत्वम्, नतु धातोः परस्य। अन्यथा जुगुप्सते इत्यत्र धातोरित्यविहितस्यापि 'गुप्तिज्किद्भयः-' इति सन आर्धधातुकत्वापत्तौ लघूपधगुणापतेरिति भावः । अस्य सन आर्धधातुक वे फलमाह इडिति । द्वित्वमिति । 'सन्योः' इत्यनेनेति भावः । अभ्यासस्य इत्त्वविधि स्मारयति सन्यत इति । पठितुमिच्छतीति । भावस्तुमुनर्थः । 'अपयकृतो भावे' इत्युक्तेः । धात्वर्थ एव भाव इत्युच्यते । तथा च पठितुमित्यस्य पठनक्रियवार्थः । तस्मिन् पठने इच्छाकर्मत्वम् इच्छासमानकर्तृकत्वं च सना गम्यते । तथा च स्वकर्तृकं पठनमिच्छतीत्यर्थे पिपठिषतीति शब्दो वर्तते इत्युक्तं भवति । अथ 'अद भन्नणे' इति धातोः सनि घस्लुभावं स्मारयति लुङ्सनोर्घस्ल इति । घस् स इति स्थिते इटमाशङ्कयाह एकाच इति । नेडिति । घस् स स्थिते आह सस्य तत्वमिति । 'सः स्यार्धधातुके' इत्यनेनेति भावः । जिघत्सतीति । द्वित्वे अभ्यासजश्त्वचुत्वे इति भावः । रसनोद्वित्वमिति । तृतीयस्य व्यञ्जनस्येति पक्षे ईर्घ्य इस इत्यत्र यकारमात्रस्य द्वित्वे, सनः षत्वे, संयुक्तद्वियकारं रूपमिति भावः, तदाह ईयिषतीति । तथा च सन्नन्ते ईकाररेफषकारयकाराद्वित्वेकारषकाराः । तृतीयस्यैकाच इति पक्षे ईर्घ्य इ स इत्यत्र स इत्यस्य द्वित्वे अभ्यासेत्त्वे सकारद्वयस्यापि षत्वे रूपं मत्वाह ईष्यि
धातोः कर्मणः । इषिकर्मण इत्यादि । इच्छ। यामिति श्रुतत्वात्कर्भत्वं कर्तृत्वं च तदपेक्षमेव गृह्यत इति भावः। पठितुमिच्छतीति । एकनिष्ठा पाठगोचरा वर्तमानेच्छेत्यर्थः । यिसनोरिति । तृतीयव्यञ्जनस्यति पक्षे यकारस्य द्वित्वम् ,
१ तृतीयव्यञ्जनमात्रस्य द्वित्वमिति बालमनोरमामतेनेटम् ।