________________
प्रकरणम् ५३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४४७ शुद्धेन तुल्योऽर्थः । तेन 'प्रार्थयन्ति शयनोस्थितं प्रियाः' इत्यादि सिद्धम् । एवं सकर्मकेषु सर्वेषूह्यम् ।
____ इति तिङन्ते णिचप्रकरणम् । अथ तिङन्ते सन्प्रकरणम् ॥ ५४ ॥
२६०८ धातोः कर्मणः समानकर्तृकादिच्छायां वा। (३-१-७) अाह तृतीयाभावेनेति । ईर्घ्य इ अत् इत्यत्र ईय् इति प्रथमैकाच् , यि इति द्वितीयकाच्, न तु चडि परे तृतीयकाजस्ति । अतोऽत्र तृतीयैकाच इति वार्तिकं न प्रवर्तते । तस्माद् द्वितीयस्यैव एकाचो द्वित्वमित्यर्थः । एवं च तृतीयस्यैकाच इति वार्तिकं सन्नन्त एव प्रवर्तते। ईष्यतेरामः सत्त्वेन ततः परस्य लिटोऽभावादिति बोध्यम् । ननु 'प्रार्थयन्ति शयनोत्थितं प्रियाः' इति माघकाव्ये प्रार्थयन्तीति न चौरादिक. खार्थिकणिजन्तम् , तस्यागीयतया अात्मनेपदप्रसङ्गात् । नापि हेतुमएण्यन्तम् । खामीष्टं याचते इत्यर्थे तदसंभवात् । नदि प्रयोजकव्यापाराभावे तत्प्रवृत्तिरस्तीत्यत आह निवृत्तेति । निवृत्तं प्रेषणं यस्मात् स निवृत्तप्रेषणः-संप्रति अविवक्षितप्रेषण इत्यर्थः । तस्माद्धातोः भूतपूर्वगत्या प्रेषणमादाय हेतुमराणौ कृते शुद्धेन णिज्विहीनेन धातुना तुल्योऽर्थः प्रतीयते इत्यर्थः । तदुक्तम् 'निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते' इति । इदं च 'णेरणौ-' इति सूत्रे भाष्ये स्पष्टम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायो
बालमनोरमाख्यायां हेतुमरिणचो निरूपणं समाप्तम् । अथ सन्प्रक्रियाः निरूप्यन्ते। धातोः कर्मणः । 'गुप्तिज्किद्भयः-' इत्यतः सन्नित्यनुवर्तते । इच्छायाः श्रुतत्वात्तां प्रत्येव कर्मत्वं विवक्षितम् । तथा समानकर्तृमित्यादिना । द्वितीयस्यैवेति । एकाच इति शेषः। अप्रवृत्तेरिति । किंतु सन्नन्त एव प्रवर्तते । तत्र ह्यनुपदम् ईयियिषति इत्युदाहरिष्यति । अर्थ उपयाञ्चायामित्यस्य आगीयत्वादात्मनेपदेन भाव्यमिति प्रार्थयन्तीति माघकाव्यादिप्रयोगोऽसाधुरित्याशङ्कय तत्समर्थनायाह निवृत्तप्रेषणादिति । उक्तं च-'निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते' इति । तेनेत्यादि । प्रार्थनां कुर्वन्तीति विवक्षितार्थे प्रयोगः सिद्ध इति भावः । केचित्तु परस्मैपदसिद्ध्यर्थ प्रार्थन प्रार्थः, तं कुर्वन्ति प्रार्थयन्तीति व्याचक्षते, तदसत् , धातुसंज्ञाप्रयोजकप्रत्यये चिकीर्षिते उपसर्गाणां पृथक्करणस्य वक्ष्यमाणतया 'अर्थवेद-' इत्यापुगागमस्य दुरित्वात् ।
इति तत्त्वबोधिन्यां एयन्तप्रक्रियाप्रकरणम् ।