________________
४४६ ] सिद्धान्तकौमुदी।
[णिच्(सू २५७४) । 'हो हन्तेः' (सू ३५८ ) इति कुस्वम् । धातयति । ईय॑यति । 'ईय॑तेस्तृतीयस्येति वक्तव्यम्' ( वा ३४०६)। तृतीयव्यञ्जनस्य तृतीयैकाच इति वार्थः । आये षकारस्य द्वित्वं वारयितुमिदम् । द्वितीये तु 'अजादेर्द्वितीयस्य' ( सू २१७६ ) इत्यस्यापवादतया सन्नन्ते प्रवर्तते । ऐध्यियत् , ऐषिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते । हलादिशेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः । निवृत्तषणाद्धातोर्हेतुमएणौ एणलोरिति । कुत्वमिति । हस्येति शेषः । उपधावृद्धि मत्वाह घातयतीति । लुङि अजीघतत् । ईय॑यतीति । ईयतेो रूपम् । वक्तव्यमिति । द्वित्वमिति शेषः । इति वार्थ इति । 'न न्द्राः-' इति सूत्रभाष्ये स्पष्टमिदम् । आद्य इति । तृतीयस्य व्यञ्जनस्येति पक्ष इत्यर्थः। षकारस्यति । अन्यथा ईध्ये इ अत् इति स्थिते 'न न्द्राः-' इति रेफ वर्जयित्वा षकारसहितस्य थिय इत्यस्य द्वित्वं स्यात् । ततश्च उत्तरखण्डे णिलोपे ऐषिष्यदिति स्यात् । ऐष्यदितीष्टं न स्यात् । अतस्तृतीयव्यञ्जनस्येत्युक्तम् । एवं च यकारमात्रस्य द्वित्वे णिलोपे संयुक्तद्वियकारमिष्टं सिध्यतीत्यर्थः। द्वितीय इति । तृतीयेकाच इति व्याख्याने इत्यर्थः । सन्नन्ते प्रवर्तत इति । उक्तवार्तिकमिति शेषः। सनि इटि ईयूं इस इति स्थिते ईर्दा इति प्रथमैकाच व्यिस् इति द्वितीयकाच् स इति तृतीयकाजिति निः । तत्र तृतीयकाचः संभवात्तस्य द्वित्वविधिः । अन्यथा 'अजादेर्द्वितीयस्य' इति स्यादिति भावः । ऐlयदिति । यकारमात्रस्य द्वित्वे णिलोपे संयुक्तद्वियकारं रूपम् । अथ द्वितीयव्याख्यायां रूपमाह ऐर्षिष्यदिति । तदुपपादयति द्वितीयव्याख्यायामिति । एयन्ताच्चडि ईयूं इ अत् इति स्थिते 'न न्द्रा:-' इति नेषेधाद्रेफ वर्जयित्वा 'अजादेद्वितीयस्य' इति व्यि इत्यस्य द्वित्वम्, न तु यकारमात्रस्ट, प्रथमव्याख्याने एव तृतीयव्यञ्जनस्येत्युक्तेः । तत्र यि इत्यस्य द्वित्वे कृतेऽपि अभ्यासे षकार एव हल इकारशिरस्कः श्रूयते, न तु यकारोऽपीत्यर्थः । कुत इत्यत आह हलादिशेषादिति । ननु तृतीयस्यैकाच इति द्वितीयव्याख्यायाम् इह द्वितीयस्यैकाचः कथं द्वित्वमित्यत आह द्वित्वं तु द्वितीयस्यैवेति । एकाच इति शेषः। कुत इत्यत द्वित्वेऽभ्यासोत्तरखण्डस्यावर्णपरत्वाभावात् । इति वार्थ इति । व्याख्यानद्वयमप्याकरारूढमिति भावः। षकारस्येति । रेफस्य तु 'न न्द्र:-' इत्यनेन निषेधादिति भावः । द्वितीये विति। तृतीयस्यैकाच इति पक्षे । सन्नन्ते प्रवर्तत इति । वचनसामर्थ्यादिति भावः । ऐध्यियदिति । तृतीयव्यअनस्येति पक्षे इदमुदाहरणम् । ऐषिष्यदिति रूपस्यासाधुत्वमाशङ्कयोपपादयति द्वितीयव्याख्याया
१ तृतीयव्यञ्जनमात्रस्याज्रहितस्यैव द्वित्वमिति मतेनेदम् ।